पञ्चसु राज्येषु निर्वाचनाय सिद्धता समारब्धा।
नवदिल्ली> मेय्मासस्य सप्तमदिनाङ्कात् पूर्वं विधानसभानिर्वाचनानि विधातुं राष्ट्रिय निर्वाचन आयोगेन पर्यालोचना समारब्धा। केरलं, तमिलनाट्, पोण्टिच्चेरी, पश्चिमवंगः, असमः इत्येतेषां राज्यानां मुख्यनिर्वाचनाधिकारिभिः सह [CEOs] केन्द्र उपनिर्वाचनायोगः चर्चां कृतवान्। निर्वाचनस्य पूर्वसिद्धतां पुरस्कृत्य आसीत् चर्चा।
केरले एप्रिल् मासे द्वितीयसप्ताहे निर्वाचनं विधातुं साध्यता वर्तते। फेब्रुवरिमासस्य प्रथमसप्ताहे मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः, आयोगौ डो सुखविन्दर् सिंह सन्धुः, डो विवेक जोशी च पञ्चसु राज्येषु पर्यटनं करिष्यन्ति।