केरलीयछात्राः 'रोबोटिक् अध्ययनम्' आरब्धवन्तः।
अनन्तपुरी> केरले दशमकक्ष्याछात्राः ऐ टि परिशीलनस्य अंशतया यन्त्रमनुष्यविज्ञाने [Robotic study] अध्ययनमारब्धवन्तः। सर्वकारीय-साह्याधिष्ठितनिजीयविद्यालयेषु [Govt & Aided schools] सार्धचतुर्लक्षं विद्यार्थिनः अस्मिन् परिशीलने भागं कुर्वन्ति।
दशमकक्ष्यायां नूतने ऐ टि पाठपुस्तके रोबोटिक्स् पाठाः विद्यन्ते। तेषां प्रयोगिकं परिशीलनं दातुं लक्ष्यमाणा सप्ताहद्वयात्मिका शिल्पशाला आसूत्रीकृता इति 'कैट्' इति ऐ टि परिशीलन संस्थायाः अधिकारी अन्वर् सादत्तवर्यः निगदितवान्। विद्यालयेषु वर्तमानानां 'लिटिल् कैट्स् समितीनां' नेतृत्वे सन्ति परिशीलनशिल्पशालाः।
