ऊन १९ एकदिनक्रिकट्
परम्परां स्वायत्तीकृत्य भारतम्।
आरोण् जोर्ज्, सूर्यवंशी इत्यनयोः शतकप्राप्तिः।![]()
आरोण् जोर्जः [वामे], वैभवश्च।
बेनोनी> दक्षिणाफ्रिकां विरुध्य ऊननवदशवयस्कानाम् एकदिनक्रिकट्
परम्परायाः अन्तिमस्पर्धामपि विजित्य भारतं परम्परां स्वायत्तीकृतवत् [३ - ०]। भारतदलस्य नायकः वैभवसूर्यवंशी, केरलीयः आरोण् जोर्जः च शतकं प्राप्तवन्तौ। २३३ धावनाङ्कानाम् उज्वलविजय एव भारतेन संप्राप्तः। नायकः वैभव सूर्यवंशी ७४ कन्दुकेभ्यः १२७ धावनाङ्कान् सम्पादितवान्। प्रारम्भक्रीडकरूपेण ताडनं कृतवान् आरोण् जोर्जः १०६ कन्दुकेभ्यः ११८ धावनाङ्कान् सम्प्राप्तवान्।
प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु ३९३/७। दक्षिणाफ्रिका ३५ क्षेपणचक्रेषु १६० धावनाङ्कैः सर्वे बहिर्नीताः।