OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 9, 2026

 राज्यवार्ता - छत्तीसगढः। 

२८ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

सुक्मा> छत्तीसगढे सुक्माजनपदे ६५ लक्षं रूप्यकाणि शिरोमूल्यम् उद्घोषितान् १३ जनान् अभिव्याप्य २६ मावोवादिनः सुरक्षासेनायाः पुरतः आत्मसमर्पणं कृतवन्तः। तेषु  सप्त जनाः महिलाः भवन्ति।  आत्मसमर्पणं कृतवद्भ्यः सर्वकारस्य पुनरधिवासयोजनामनुसृत्य ५०,००० रूप्यकाणि प्रति जनं साहाय्यराशिं लभन्ते।