राज्यवार्ताः - दिल्ली।
सोणियागान्धी आतुरालयं प्रवेशिता।
नवदिल्ली> कोण्ग्रस् दलस्य विचारसभानेत्री सोणियागान्धी गंगाराम् आतुरालयं प्रवेशिता। दिल्ल्यां पर्यावरणमलिनीकरणतीव्रतया कठिनेन कासेन पीडिता अस्ति सोणिया इति सूच्यते। किन्तु तस्याः स्वास्थ्यविषये आशङ्का नास्तीति आतुरालयाधिकारिभिः निगदितम्।
.jpeg)