एलिसबत् राज्ञ्याः शासनं निरस्य बारबडोस् स्वतन्त्रम् अभवत्
एलिसबत् राज्ञ्याः शासनं निरस्य बारबडोस् स्वतन्त्रम् अभवत्
ओमिक्रोण् आशङ्काः । वाक्सिनस्य तृतीयमात्रा परिगणनायाम्।
नवदिल्ली> ओमिक्रोण् वैराणुबाधा आशाङ्क्य वयोजनेभ्यः प्रतिरोधक्षमता रहितेभ्यः च वाक्सिनस्य तृतीयमात्रादानं परिगण्यते। प्रतिरोधसूच्यौषधमनुबन्ध्य राष्ट्रिय-प्रौद्योगिकसमितिः अस्मिन् विषये सद्यैव अनुज्ञां दास्यति। कोविड् वैराणु बाधया मृतेषु अधिके वाक्सिनीकरण-रहिताः भवन्ति। कोविड्वैराणोः विभेदं प्रतिरोद्धुं तृतीयमात्रा पर्याप्ता भविष्यति इति प्रतीक्ष्यते। रोगतीव्रतां मरणं च प्रतिरोद्धुं तृतीय मात्रा सहायकरी भविष्यति।
राष्ट्रे अद्यावधि ओमिक्रोण् वैराणुः न दृढीकृतः। परिशोधनां वर्धयितुं भारतसर्वकारस्य निर्देशः ।
नवदिल्ली> कोविड्वैराणोः ओमिक्रोण् विभेदः भारते अद्यावधि न दृढीकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन प्रोक्तम्। राज्यस्तरीय स्वास्थ्यविभागस्य प्रतिनिधिमेलने केन्द्रस्वास्थ्य-कार्य दर्शिना एव कार्यमिदं स्पष्टीकृतम्। राज्यसभायां स्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येनापि कार्यमिदम् आवेदितम्। एतदभ्यन्तरे वाक्सिनीकरणं त्वरणीयम् इत्यपि स्वास्थ्यमन्त्रालयेन राज्यानि प्रति अवोचत्। आन्टिजन् तथा आर् टि पि सि आर् द्वारा ओमिक्रोणस्य सान्निध्यं ज्ञातुं शक्यते इति मन्त्रालयेन प्रोक्तम्। विमानपत्तनेषु निरीक्षणं सुशक्तं कर्तुं तथा स्वास्थ्य मन्त्रालयस्य निर्देशं पालयितुं च केन्द्रसर्वकारेण अनुज्ञा दत्ता ।
कार्षिकविधेयकं निरस्तम्।
नवदिल्ली> विवादभूतं कार्षिकविधेयकं निरस्तीकर्तुमुद्दिश्य केन्द्रकृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण अवतारितं नूतनं विधेयकं चर्चां विना संसदद्वयेन अङ्गीकृतम्। नूतनविधेयकस्य उपरि चर्चा न कृता इत्यस्मिन् प्रकरणे विपक्षदलैः प्रतिषेधः कृतः।
आकर्षकक्षेममुद्दिश्य आसीत् संवत्सरात्पूर्वं केन्द्रसर्वकारेण विधेयकमानीतम्। किन्तु दिल्लीं केन्द्रीकृत्य प्रवृत्ते कर्षकप्रक्षोभस्य आधारेण विधेयकं निराकर्तुं सर्वकारः निर्बन्धितः अभवत्।
कुजग्रहात् एकम् समपत्रकम्। मनोहरचित्राणि सम्प्रेष्य क्यूरियोसिट्टि।
कोविडस्य नूतनप्रभेदः - राष्ट्रे अतिजाग्रता ; अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम्।
नवदिल्ली> दक्षिणाफ्रिक्कायां प्रत्यभिज्ञातः 'ओमिक्रोण्' नामकः कोविड्प्रभेदः डेल्टा इत्यस्मात् तीव्रः दुर्घटनाकारकः इति विश्वस्वास्थ्यसंघटनेन पूर्वसूचना दत्ता। भारते एतदनुसृत्य अतिजाग्रता प्रख्यापिता। अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम् विहितम्।
प्रधानमन्त्रिणा नरेन्द्रमोदिना समायोजिते अधिकारिप्रमुखाणां समुपवेशने राष्ट्रान्तरविमानानि कोविडनुशासनानि अनुसृत्य परिशोधनां कर्तुं निर्देशः कृतः। विमानयात्रिकाणां कृते यात्रानुशासनानि परिष्कृतानि। डिसम्बर् प्रथमदिनाङ्कादारभ्य नूतनानुशासनानि प्राबल्ये भविष्यन्ति।
सर्वेभ्यः राज्येभ्यः एतदुपलक्ष्य आदेशान् प्रदातुं निर्णयः कृतः।
वेदकालमपि समायोज्य पाठ्य शैक्षिकयोजना परिष्करणीया इति भारतीयविचारमन्त्रणसभा।
वेदकालीनं सामाजिकजीवनं विज्ञानं च शैक्षिकयोजनायां समायोजनीयमिति शैक्षिककार्यमन्त्रणसमित्याः अनुशासनाl चरित्राध्ययनेषु स्वतन्त्रतासंग्रामसेना, तासां योगदानं, विविधदेशात् तासां भागभागित्वम् इत्यादीनां पुनरवलोकनं करणीयमित्येव पाठपुस्तकपरिष्करणचर्चानन्तरं समित्या आयोजितस्य प्रतिवेदनस्य निर्देशः। षष्ठकक्ष्यायाः पाठपुस्तके हारप्पा संस्कृतिमधिकृत्य सूचिते भागे केचन परिष्काराः समित्या निर्दिष्टाः। चतुर्थे अध्याये ऋग्वेदेन सह सामवेदः, यजुर्वेदः, अथर्ववेदः इत्यादीन् ग्रन्थान् अधिकृत्य ज्ञानमपि समायोजनीम्। पुराणानि, जैनधर्मेण बौद्धधर्मेण च साकं सिख् विशुद्धग्रन्थस्य गुरुग्रन्थसाहिबस्य परामर्शोऽपि समायोजितव्यः।तत्वशास्त्रं, गणितशास्त्रं, वैद्यशास्त्रं, आयुर्वेदं, प्रकृतिशास्त्रं, राजनैतिकशास्त्रं, आर्थिकव्यवस्था, भाषा, कला इत्यादिषु मण्डलेषु पौराणिकभारतस्य योगदानं च पाठ्य प्रणाल्यां समायोजनीयम्। परम्परया आगतां भारतीयविज्ञानशाखाम् आधुनिकशास्त्रेण सह संयुज्य समकालिकवातावरणे प्रतिपादनीयम्। एन् सि इ आर् टि, तथा एस् सि इ आर् टि पाठपुस्तकानां कृते मन्त्रणसभया समायोजिता भवति एषा प्रशासना।
नलन्दा तथा तक्षशिला विश्वविद्यालयानां शैक्षिकसम्प्रदायं विशदरीत्या अवगम्य अधुनातनरीत्या परिष्कृत्य अध्यापकानां कृते आदर्शः सज्जीकृत्य दातव्यमित्येव समितेः निर्देशः।
केरलेषु संस्कृताध्यापकाः संस्कृत-घिषणावृत्तये संग्रामं करिष्ये।
संसदः शीतकालसम्मेलनं श्वः आरभते।
नवदिल्ली> भारतसंसदः शैत्यकालसम्मेलनं सोमवासरे आरभते। कार्षिकनियमप्रतिनिवर्तनं समेत्य २६ विधेयकानि सभायाः परिगणनाय अवतारयिष्यन्ते।
रविवासरे प्रातः लोकसभाध्यक्षस्य ओं बिर्लामहोदयस्य संसद्कार्यमन्त्रिणः प्रह्लाजोषेः च नेतृत्वे सर्वेषां राजनैतिकदलानां प्रतिनिधीनां उपवेशनं भवति। विपक्षनेतुः मल्लिकार्जुन खार्गेवर्यस्य नेतृत्वे विपक्षदलनेतॄणां मेलनं सोमवासरे भविष्यति।
दक्षिणाफ्रिक्कासु कोविड्वैराणोः नूतनविभेदः दृढीकृतः।
विविधराष्ट्रैः यात्रानिरोधनाय निर्देशः दत्तः।
जोहन्नस्बर्गः> आफ्रिक्कासु कोविड् रोगवर्धनाय कारणभूतस्य नूतनवैराणुविभेदस्य स्थिरीकरणस्य पश्चात् दक्षिणाफ्रिक्कातः स्वस्वराष्ट्रं प्रति आगमननिरोधनाय यूयेप्यन् यूनियन् , जर्मनि, इट्टलि, ब्रिट्टन् इत्यादिभिः राष्ट्रैः निर्देशाः दत्ताः। बहुवारं जनितकपरिवर्तनविधेयः नूतनप्रभेदः दक्षिणाफ्रिक्कस्य वैज्ञानिकैः गतदिने दृढीकृतः आसीत्। समीपकाले राष्ट्रे रोगिणां संख्या अधिकतया रेखाङ्किता आसीत्। अस्य हेतुः नूतनवैराणुविभेदः भवेत् इति वैज्ञानिकाः अभिप्रयन्ति।
बहुस्तरदुर्भिक्षसूचिका प्रकाशिता - ददौर्भिक्ष्यमधिकतमं बिहारे; न्यूनतमं केरले।
नवदिल्ली> भारते दुर्भिक्षकाणां संख्या अधिकतमा बिहारराज्ये, न्यूनतमा केरले च। नीति आयोगेन प्रकाशितायां बहुस्तरदौर्भिक्ष्यसूचिकायां [Multi dimensional Poverty Index] एव ईदृशं मूल्यनिर्णयं विद्यते। स्वास्थ्य-शैक्षिक-जीवनस्तरः इत्यादीनामाधारे भारतस्य सर्वेषु राज्येषु नीति आयोगसंस्थया एवं समीक्षणं कृतम्।
सूचिकामनुसृत्य केरले दरिद्राणां प्रतिशतता 0.71 भवति। १०,०० जनेषु ७१जनाः दरिद्राः भवन्ति। किन्तु बिहारे जनसंख्यायाः 51.91% जनाः दारिद्र्यमनुभवन्ति। झार्खण्डे 42.16%, उत्तरप्रदेशे 37.79% च. जनाः दारिद्र्यमनुभवन्ति इति सूचिकायां दृश्यते।
केरलमपेक्ष्य निष्किञ्चनाः गोवायां न्यूनतराः भवन्ति। तत्रत्यः दारिद्र्यः 3.76% अस्ति। तमिल् नाट्मध्ये 4.89%, कर्णाटके 13.16% च दरिद्राः अङ्किता सन्ति। ऐक्यराष्ट्रसंघटनस्य दारिद्र्यनिर्माजनप्रमेयमनुसृत्य एव एतादृशी सूचिका कृता।
भारतीयसेनायाः रहस्यविज्ञानानि चोरयित्वा पाकिस्थानाय प्रदत्तः पुरुषः आरक्षकेण संगृहीतः।
पाकिस्थानस्य कृते सेनारहस्यमि प्रदत्वा गूढकर्म कृतः इति कारणेन जय्साल्मर् देशात् एकस्य आपणस्य स्वामी राजस्थानस्य आरक्षकैः संगृहीतः। जङ्गमदूरवाण्याः सिं पत्राणां विक्रयणापणस्य स्वामी निदाब् खान् नामकः एव संगृहीतः। एषः संवत्सराणि यावत् पाकिस्थानस्य रहस्यान्वेषणसंस्थायाः ऐ एस् ऐ कृते गूढकर्म कुर्वन् आसीत् इति गुप्तान्वेषण विभागस्य निदेशकेन उमेष् मिश्रेण प्रोक्तम्।२०१५ तमे संवत्सरे सः पाकिस्थानराष्ट्रं सन्दर्शितवान्। ऐ एस् ऐ संघस्य नेतृत्वे परिशीलनं लब्धस्यै तस्मै१०००० रुप्यकाण्यपि तैः अदात्। भारतीयसेनासम्बन्धि ज्ञानानि एव तेन पाकिस्थानाय दत्तानि। सामाजिक-माध्यमलेखद्वारा एव सेनारहस्यानां विनिमयः कृतः इत्यपि मिश्रेण सूचितम्।
जेवार् विमानपत्तनाय ३५००० कोटिरूप्यकाणां निक्षेपः।
एकलक्षम् उद्योगार्थिनाम् अवसरोऽपि लप्स्यते।
नवदिल्ली> सहस्रशः जनानां आह्लादारवाणां मध्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना जोवार् विमानपत्तनस्य शिलान्यासः कृतः। राष्ट्रस्य स्वप्नयोजनायाः विकासमेव प्रधानतया अनेन लक्ष्यीक्रियते। उत्तरप्रदेशराज्यस्य पश्चिमभागात् ऋते आराष्ट्रं च बृहत् विकासाय मार्गदर्शकं भविष्यति अन्ताराष्ट्रविमानपत्तनम् । पत्तननिर्माणपूर्त्यनन्तरं भारते तथा एष्याभूखण्डे अतिबृहत्तमं विमानपत्तनम् इति ख्यातिःभविष्यति जोवार् अन्ताराष्ट्रविमानपत्तनस्य।
कैरलीयगानरचयिता बिच्चु तिरुमला दिवङ्गतः।
अनन्तपुरी> कविः गानरचयिता इति प्रथितः बिच्चु तिरुमला(८०) दिवङ्गतः। अद्य प्रभाते अनन्तपुर्यां निजीय आतुरालये आसीत् देहवियोगः। आतुरालये हृद्रोगचिकित्सायां आसीत् । ४०० संख्याधिकेषु चलनचित्रेषु गानानि तथा भक्तिगीतानि च आहत्य ५००० गानानि अनेन विरचितानि। महानुभावोऽयं१९८१ तमे संवत्सरे१९८५ तमे संवत्सरे च उत्तमगानरचनायाः कृते राज्यपुरस्कारेण समादृतः आसीत् च।
अन्टार्टिक्कायां हिमपटलेषु बृहत् वाणिज्यविमानं भूस्पर्शमकरोत्।
भारते कोविडस्य तृतीयतरङ्गः कठिनतरं न भविष्यतीति स्वास्थ्यविचक्षणाः।
नवदिल्ली> वाक्सिनीकरणेन विषाणुबाधया च भूरिशः जनाः प्रतिरोधशेषिं प्राप्तवन्तः इत्यतः कोविड्रोगस्य तृतीयतरङ्गः भारते द्वितीयमपेक्ष्य न कठिनतरं भविष्यतीति स्वास्थ्यविचक्षणैरुक्तम्। राष्ट्रे मुख्योत्सवेषु अन्यतमस्य दीपावलेः परं सप्ताहत्रये रोगिणां संख्या नावर्धत इति एतस्य सूचनेति व्याख्यायते।
गतदिने आराष्ट्रं कोविड्बाधिनानां संख्या ७,५७९ आसीत्। ५४३ दिनेषु न्यूनतमा संख्या एषा। प्रतिशतं ८२ जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः। ४३ % द्वियीयमपि स्वीकृतवन्तः।
२०२४ तमे संवत्सरे भारतेन निर्मितायाः ६ जि पारिभाषिकविद्यायाः प्रकाशनं भविष्यति।
नवदिल्ली> विश्वे विविधानि राष्ट्राणि अद्यावधि ५ जि पारिभाषिकविद्यासु प्रविष्टाः तथापि भारतम् इदानीमपि ५ जि तलेषु न प्राप्तम्। तदभ्यन्तरे देशनिर्मितां ३जि सुविधां संबन्ध्य भारतेन चर्चा समारब्धा। २०२३ वा २०२४ संवत्सरे स्वदेशीयरूपेण आविष्कृतां ६जि सुविधां प्रवृत्तिपथमानेष्यति इति भारतस्य वैद्युतक - वार्ताविनिमय-सूचना- प्रौद्योगिकमन्त्रिण्या श्रीमति अश्विनि वैष्णवेन प्रख्यापिता।
भारतं ५० लक्षं 'बारल्'परिमितं क्रूड्तैलं बहिर्नयन्ति। मूल्यवर्धननियन्त्रणं लक्ष्यः।
मुम्बई> राष्ट्रे तैलेन्धनानाम् अनुस्यूतं मूल्यवर्धनं नियन्त्रयितुं राष्ट्रस्य संभृतसञ्चयात् ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेतुं सर्वकारेण निश्चितम्। उत्पादनं न्यूनीकृत्य कृत्रिमं मूल्यवर्धनं क्रियमाणस्य इन्धनोत्पादकराष्ट्रसंघस्य [ओपेक्] प्रक्रमेभ्यः पूर्वसूचनां दातुमेवायं निर्णयः।
अमेरिक्कायाः नेतृत्वे विविधराष्ट्रैः स्वीकृतस्य तन्त्रप्रधाननिर्णयस्य अंशतया एव भारतस्यापि निश्चयः। अमेरिक्का अपि ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेष्यति। चीनः, जाप्पानं, ब्रिट्टनम् इत्यादीनि राष्ट्राण्यपि एतादृशरीत्या सहयोगं कुर्वन्ति।
सेलम् देशे द्रवेन्धनवातकदण्डगोलविस्फोटे त्रीणि गृहाणि भग्नानि। एकः मृतः च।
चेन्नै> तमिल्नाडुराज्ये सेलं देशे सम्पन्ने द्रवेन्धनवातकदण्डगोलविस्फोटे (LPG cylender ) त्रीणि भवनानि भग्नानि। एकः मृतः च। त्रयः जनाः भग्नावशिष्टानां अन्तर्भागे संविष्टाः इति सूचना अस्ति। पञ्च जनाः रक्षिताः। सेलस्थे करिङ्कल्पेट्टि वीथ्याम् एव घटना एषा सम्पन्ना। भवने भक्षणपचनवेलायामेव दण्डगोलः भग्नः। अपघातं सम्पन्नं भवनं तथा समीपस्थौ द्वौ गृहौ च तत्क्षणे प्रभज्य भूमौ पेततुः। रक्षां प्राप्ताः पञ्चजनाः सेलस्थे सर्वकारीयं आतुरालयं प्रविष्टाः। भानावशिष्टान्तर्भागे एकः शिशुः अपि अस्ति। रक्षाप्रवर्तनानि अनुवर्तते।
आन्ध्रप्रदेशः प्रलयभीतेः न विमोचिताः ; मरणानि ४२।
हैदराबादः> आन्ध्रप्रदेशे यद्यपि वृष्टेः शक्तिः न्यूना अभवत्तथापि प्रलयभीतेः न विमोचिताः। चिट्टूर्, कडप्पा, नेल्लूर् जनपदेषु महान्नाशः अभवत्। अतिवृष्टिदुष्प्रभावे मृतानां संख्या ४२ जाता।
कडप्पजनपदे पुङ्गनूरस्थः २०० संवत्सरीयः सौधः विशीर्णः। प्राथमिकगणनामनुसृत्य राज्यस्य १,३१६ ग्रामाः जलभोगेन गक्लेशमनुभूयमानाः वर्तन्ते।
चलनचित्रेषु नाटकेषु तालिबानेन स्त्रियः निरोधिताः।
काबूल्> स्त्रीकथापात्रयुक्तानां दूरदर्शनकार्यक्रमाणां सम्प्रेषणं स्थगयितुं दूरदर्शनप्रणालिकायै (channel) अफगानिस्थानस्य तालिबानप्रशासनसभया निर्देशो दत्तः। दूरदर्शनप्रणालिकासु शिरोवस्त्रं धृत्वा चित्र प्रदर्शिन्याः पुरतः आगन्तव्यम्। नूतननिर्देशानुसारं चलनचित्रेषु नाटकेषु च स्त्रीभिः अभिनयः न करणीयः। वक्षस्थलादारभ्य जानुपर्यन्तं वस्त्रं धृत्वा एव पुरुषाः दूरदर्शने आगन्तव्याः। धर्मविकारान् ध्वंसयन्तः हास्यकार्यक्रमाः विनोदकार्यक्रमाः च न करणीयाः इति तालिबानेन निर्दिष्टः अस्ति। संवत्सरेऽस्मिन् आगस्त् मासे एव तालिबानेन अफ्गानिस्थानस्य शासनं संगृहीतम्। शासनपदवीमागतस्य पश्चात् वनिताक्षेमविभागः तालिबानेन स्थगितः आसीत्। विभागस्य मुख्यकार्यालयः नूतनतया रूपीकरणाय सदाचारविभागाय समर्पितः च। स्त्रीस्वातन्त्र्यस्योपरि अतिनियन्त्रणानि एव तैः दापितानि।
यूरोप्पे कोविड्व्यापनं तीव्रं; कर्कशनियन्त्रणानि विरुध्य प्रतिषेधः।
पारीस्> यूरोप्पीयराष्ट्रेषु कोविड् महामार्याः पञ्चमतरङ्गं तीव्रं वर्तते इति विश्वस्वास्थ्यसंघटनेन निगदितम्। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, फ्रान्स् इत्यादिषु राष्ट्रेषु व्यपनम् आशङ्काजनकमिति सूच्यते।
फ्रान्स् राष्ट्रे कोविड्प्रकरणानि गतसप्ताहीयापेक्षया द्विगुणमभवन्निति तद्देशीयसर्वकारेण उक्तम्।
परन्तु प्रायेण सर्वेषु राष्ट्रेषु सर्वकारैः विहितानि कर्कशनियन्त्रणानि विरुध्य जनानां प्रतिषेधाः संवृत्ताः। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, इत्येतेषु राष्ट्रेषु सहस्रशः जनाः स्वयं राजमार्गं प्रविश्य प्रतिषेधप्रदर्शनं कृतवन्तः। बहुत्र प्रतिषेधः अक्रमासक्तोSभवत्। हेग् नगरे प्रतिषेधकैः आरक्षकान् प्रति स्फोटकादिकं प्रयुक्तम्।
विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा।
आन्ध्रप्रदेशे जलोपप्लवः - २९ मरणानि; उपशतं जनाः अप्रत्यक्षाः।
तिरुप्पति> आन्ध्रप्रदेशे अतिवृष्टिरनुवर्तते। अतिवृष्टिदुष्प्रभावेण २९ जनाः मृत्युमुपगताः। उपशतं जनाः अदृष्टाः इति सूच्यते। कडप्पा जनपदे १२, चिट्टूरे ८, अनन्तपुरे ७, कुर्नूल् जनपदे २ च जनाः मृत्युमुपगताः। राष्ट्रियदुरन्तनिवारणसेनायाः अन्यासां संस्थानां च नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।
वंगदेशीयान्तरालमुद्रे जातं न्यूनमर्द्दमेव प्रकृतिक्षोभस्य कारणम्। राज्यस्य सुप्रधानं तीर्थाटनस्थानं तिरुप्पतिमन्दिरं जलेनाप्लावितम्। रायलसीमा मण्डले प्रलयः तीव्रः वर्तते।
गोवा अन्ताराष्ट्रिय-चलनचित्र-मेलायाः प्रारम्भः अद्य भविष्यति।
पनाजि> ५२ तमायाः अन्ताराष्ट्रियचलनचित्रमेलायाः प्रारम्भः अद्य भविष्यति। सायाह्ने सप्तवादने श्यामप्रसाद् मुखर्जी सभागारे उद्घाटनसमारोहः समारप्स्यते। ७३ राष्ट्रात् १४८ चलनचित्राणि अन्ताराष्ट्रियविभागात् प्रदर्शनाय भविष्यन्ति। सुवर्ण मयूर पुरस्कारस्पर्धाविभागे १५ चलनचित्राणि सन्ति। इन्ड्यन् पनोरमा विभागे २५ चलनचित्राणि प्रदर्शयिष्यन्ति। कार्लोस् सोरेण निदेशनं कृतं 'द किङ् ओफ् ओल् द वेल्ड्' उद्घाटनचलनचित्रं भविष्यति।