भारतस्य नवीनविधानसभायाम् उपराष्ट्रपतिः ध्वजारोहणं कृतवान्।
नवदिली> भारतस्य नवीनविधानसभायाम् उपराष्ट्रपतिः जगदीपधनकरः राष्ट्रध्वजस्य आरोहणं कृतवान्। राष्ट्रस्य पञ्चदिनात्मकस्य विशिष्टमेलनस्य शुभारम्भः अद्य भविष्यति।
एष्या चषकक्रिकट् - अद्य भारत श्रीलङ्कयोः किरीटस्पर्धा।
कोलम्बो> क्रिकट्क्रीडाक्षेत्रस्य एष्यीयवीरं निर्णेतुं कोलम्बोनगरे अद्य भारत श्रीलङ्कयोर्मध्ये अन्तिमा स्पर्धा विधास्यति। रविवासरे मध्याह्नानन्तरं त्रिवादने प्रेमदासक्रीडाङ्कणे एव स्पर्धा। पूर्वं ५ वारं भारतेन त्रिवारं श्रीलङ्कया च एष्याचषके चुम्बनं कृतम्।
२०२३ आतपतमः ग्रीष्मकाल इति नासायाः अभिलेखः।
न्यूयोर्क्> भूमेः उत्तरार्धगोले उच्चतमः आतपः आतपः अनुभूतः कालः भवति २०२३ इति नासासंस्थया तथा अमेरिकास्थे 'नाषणल् ओष्यानिक् आन्ड् अट्मोस्फेरिक् अड्मिस्ट्रेषन्' [National Oceanic and Atmospheric administration] नामिकया संस्थया च विधत्ते अनुशीलने एव वृत्तान्तमिदं निगदितम्। जूण् मासतः आगस्ट् पर्यन्तं कालः आतपतमः काल इति अङ्कितम्। आतपतमं शैत्यमपि एतत्काले एव अनुभूतमिति अभिलेखे सूच्यते।
पृथिव्याः उत्तरार्धगोले ग्रीष्मकालीनतापमानम् अस्मिन् वर्षे ०. २३ डिग्री सेल्ष्यस् परिमितं वर्धितम्। पूर्वाङ्किततापमानात् १. २ डिग्री सेल्ष्यस् परिमितस्य वर्धनं रेखितम्। एतत् पर्यावरणावस्थाव्यतियानात् मानवराशेः सुस्थितेः भीषा वर्तते इत्यस्य सूचना इति नासायाः अधिकारी बिल् नेल्सणः अवोचत्।
काश्मीरे संग्रामः - केणल्-मेजर् पदीयौ 'डि एस् पि' पदीयश्च वीरमृत्युं प्राप्तवन्तः।
श्रीनगरं> जम्मु काश्मीरे अनन्तनाग जनपदस्थे कोकर्नागे भीकरैः सह संवृत्ते संग्रामे द्वौ स्थलसेनाधिकारिणौ एकः आरक्षकाधिकारी च वीरमृत्युं प्राप्तवन्तः। '१९ राष्ट्रिय रैफिल्स् युणिट्' इत्यस्थस्य कमान्डर् स्थानीयौ केणल् मन्प्रीत सिंहः, मेजर् आशिष् इत्येतौ, जम्मु सहाधीशः [Deputy Superintendent of Police] हुमयूण् भट्टः इत्येते मृत्युं गतवन्तः।
आक्रमणस्य उत्तरदायित्वं लष्कर् इ तोय्बा इत्यस्य भीकरसंघटनस्य अधीशत्वे वर्तमानेन 'रसिस्टन्स् फ्रन्ट्' नामकेन संघटनेन स्वीकृतम्।
लिबियायां महान् प्रलयः; १०,००० अधिकं मरणानि।
![]() |
| प्रलये विनाशितः लिबियासमुद्रतटः। |
ट्रिप्पोली> आफ्रिकाभूखण्डस्य उत्तरभागस्थे लिबियाराष्ट्रे गतदिनेषु दुर्जाते महाप्रलये १०,००० अधिके जनाः मृत्युवशं प्राप्ताः। उपदशसहस्रं जनाः अदृष्टाः जाताः। ग्रीस्, बल्गेरियादिषु राष्ट्रेषु महतः विनाशस्य हेतुभूतः डानियेल् नामकः चक्रवात एव लिबियायाः पूर्वक्षेत्रेषु अतिवृष्टेः जलोपप्लवस्य च हेतुभूतो जातः।
तीरप्रदेशाः पूर्णतया सागरेण कबलिताः। बहुत्र जलसमता दशपादपरिमितं उन्नतिं प्राप्ता। द्वौ सेतू विशीर्णौ अभवताम् इत्यत एव दुरन्तस्य तीक्ष्णताम् ऊहयितुं शक्यते। डेर्ना नगरस्य २५% नामावशेषमभवदिति राष्ट्रस्य व्योमयानमन्त्रिणा हिषें स्कियौट् इत्यनेन प्रस्तुतम्।
मणिप्पुरे संघर्षस्य शमः नास्ति।
त्रयः कुक्कीवंशीयाः, एकः आरक्षकाधिकारी च भुषुण्डिप्रयोगेण हताः।
इम्फाल्> मणिप्पुरे पुनरपि संघर्षः, भुषुण्डिप्रयोगः च। काङ्पोक् पि नामके जनपदे मङ्गलवासरे अज्ञातानां भुषुण्डिप्रयोगेण त्रयः ग्रामीणाः हताः। कुक्कीवंशीयाः एते इति सूच्यते। मेय्ति विभागानां निरुद्धसंघटनमेव आक्रमणमकरोदिति आरक्षकैः निगदितम्।
तथा च बुधवासरे चुराचन्दपुरजनपदे कर्तव्यनिर्वहणमध्ये ओङ्गोमाङ्कः नामकः आरक्षकाधिकारी गोलिकास्त्रेण हतः। द्वयोः घटनयोः व्रणितानां विषये विशदांशाः न प्राप्ताः।
उत्तर इम्फाल् जनपदे गतदिने अज्ञातसंघेन भुषुण्डिप्रयोगः बोम्बाक्रमणं च अभवत्। मणिपुरराज्ये मेय् मासे आरब्धे कुक्की - मेय्ती वंशीयसंघर्षे अद्यावधि १८० अधिकाः जनाः हताः, शतशः व्रणिताश्च।
केरले निपा वैराणुबाधा - द्वौ मृतौ।
कोष़िक्कोट्> केरले कोष़िक्कोट् जनपदे पुनरपि वैराणुबाधा प्रवृत्ता। ज्वरबाधया आगस्त् ३० तमे दिनाङ्के सेप्टम्बर् ११ तमे दिनाङ्के च मृतयोः द्वयोः पुरुषयोः निपा वैराणुबाधा दृढीकृता। केन्द्रस्वास्थ्यमन्त्रिणा मनसुख माण्डव्येन एव ह्यः नवदिल्ल्यां एतत् वृत्तान्तं बहिःप्रकाशितम्। पूनास्थायां वैरोलजी परीक्षणशालायां कृते स्रवपरिशोधने एव निपा वैराणुः प्रत्यभिज्ञातः। कोष़िक्कोट् मलप्पुरं वयनाट् जनपदेषु जागरणनिर्देशः विधत्तः।
कोष़िक्कोट् जनपदे कुट्टियाटिप्रदेशे एटवलत्त् मुहम्मद नामकः आगस्त् ३०, आयञ्चेरीस्थः मम्पिलिक्कुनि हारिसः सेप्टम्बर् ११ तमे दिनाङ्के च मृतौ आस्ताम्। तयोः बन्धुजनान् आतुरालयकर्मकरान् च अभिव्याप्य सम्पर्कभूताः १६८ जनाः निरीक्षणे प्रविष्टाः।
जि - २० उच्चशिखरसम्मेलनं समाप्तम्।
नूतनाध्यक्षपदे ब्रसीलः।
नवदिल्ली> गतदिनद्वयेन नवदिल्ल्यां आयोजितस्य जि - २० उच्चशिखरसम्मेलनस्य शुभपरिसमाप्तिः। युक्रैन् युद्धमधिकृत्य विरुद्धपक्षं पालितानां राष्ट्राणां मध्ये ऐकरूप्यं सम्पादितं, आफ्रिक्काराष्ट्रसंघाय अङ्गत्वं दत्तं, चीन-पाकिस्थानसख्यं प्रतिरोद्धुं भूमिकां सज्जीकृतम् इत्येतानि भारतेन नेतृत्वं कृतस्य उच्चशिखरसम्मेलनस्य विजयमिति उद्घुष्यते।
जि-२० राष्ट्रसमूहस्य नूतनाध्यक्षरूपेण ब्रसीलस्य राष्ट्रपतिः लुला डा सिल्वा चितः। आगामी शिखरमेलनं ब्रसीले रियो डि जनैरो इत्यस्मिन् स्थाने विधास्यति।
भारतस्य यू एन् रक्षासमित्यां स्थिरांगत्वाय जो बैडनस्य अनुकूल्यम्। 
जो बैडनः नरेन्द्रमोदी च।
नवदिल्ली> संयुक्तराष्ट्र संघटनस्य [यू एन्] रक्षासमित्यां स्थिराङ्गत्वमिति भारतस्य चिरकालापेक्षायै यू एस् राष्ट्रपतेः जो बैडवस्य अनुमोदनम्। जि - २० उच्चशिखरसम्मेलनात् पूर्वं नवदिल्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह कृतायाः चर्चायाः अनन्तरं प्रकाशिते संयुक्तप्रस्तावे आसीत् बैडनस्य सहयोगप्रस्तावः।
५० मिनिट्परिमितं दीर्घिते मेलने प्रतिरोधः, वाणिज्यः, व्यापारः, आणवोर्जम् इत्यादिषु क्षेत्रेषु निर्णायकाः व्यवहाराः चर्चाविषयाः अभवन्।
उपनिर्वाचनेषु 'इन्डिया' सख्याय ४, भाजपा दलाय ३ स्थानानि।
नवदिल्ली> राष्ट्रीयस्तरे विपक्षदलैः 'इन्डिया' इति महासख्यरूपीकरणानन्तरं प्रचलिते प्रथमे उपनिर्वाचने 'इन्डिया' सख्याय लाभः। षट्सु राज्येषु सप्तमण्डलेषु सम्पन्नेषु उपनिर्वाचनेषु तैः चत्वारि स्थानानि प्राप्तानि । भाजपा दलाय त्रीणि च लब्धानि।
केरले पुतुप्पल्ली मण्डले भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिनः पुत्रः चाण्टी उम्मनः विजितवान्। त्रिपुरस्य बोक्सानगरे धनपुरे च भाजपास्थानाशिनौ विजयीभूतौ। उत्तरप्रदेशस्य घोसीमण्डले समाजवादी पार्टी दलीयः विजयी अभवत्। पश्चिमवंगस्य धूपगुडीमण्डले तृणमूल् कोण्ग्रसदलीयः विजितवान्। झार्खण्डे धूम्रिमण्डले झार्खण्डमुक्तिमोर्चा दलीया विजितवती। उत्तरखण्डे च भाजपादलीया बागेश्वरमण्डले विजितवती।
मोरोक्को राष्ट्रे महान् भूकम्पः - १३०५ जनाः मृत्युमुपगताः। 
भूकम्पे विशीर्णे भवनावशिष्टे अन्विष्यमाणः प्रदेशवासी।
१२०० + जनाः आहताः।
यूनेस्को पैतृकनगरस्य विनाशः।
मारक्केष्> आफ्रिक्काभूखण्डीये मोरोक्को राष्ट्रे शुक्रवासरे अर्धरात्रौ दुरापन्ने महति भूकम्पे १३०५ जनाः मृत्युमुपगताः इति प्राथमिकगणनायां सूच्यते। १२०० अधिकाः व्रणिताः। मारक्केष् नगरे शतशः भवनानि विशीर्णानि। गमनागमन-वार्ताविनिमयसुविधाः परिपूर्णतया स्थगिताः।
विनोदसञ्चारिणां प्रियस्थानं तथा यूनेस्को संस्थायाः पैतृकनगरमिति परिपाल्यमानं मारक्केषनगरं भूकम्पेनानेन विशीर्णमभवत्। मोरोक्कोराष्ट्रस्य चतुर्थं महन्नगरमस्ति मारक्केष्। ४५ लक्षं जनाः तं नगरमधिवसन्ति।
अट्लस् पर्वतमण्डलस्थे अल् हौस् इत्यस्थं 'इखिल्' नामकं स्थानमेव भूकम्पस्य प्रभवकेन्द्रमिति सूच्यते। ६. ८ तीव्रता तत्र अङ्किता। ततः ४. ९ इत्यङ्कितानि अनुचलनानि च जातानि।
मोरोक्को देशे दुरापन्ने भूकम्पे मरणं सहस्रातीतम्। लोकराष्ट्रैः साहाय्यप्रतिज्ञा कृता।
- रमा टी. के
वषिङ्टण्> मोरोक्को देशे दुरापन्ने भूकम्पे मरणं सहस्रातीतम् इति मोरोक्को गृहमन्त्रालयेन आवेदितम्। १२०० जनाः व्रणिताः। व्रणीभूय आतुरालये चिकित्सार्थम् आगतानां संख्या वर्धिते सन्दर्भेऽस्मिन् युवजनाः रक्तदानं कर्तुं सन्नद्धाः भवितव्यम् इति भिषग्वरैः आवेदितम्। रक्तकोशे संभृतानां रक्तस्यूतानां संख्या आकुञ्चिते सन्दर्भे भवति भिषग्वराणाम् इदम् आवेदनम्। स्वास्थ्यवैज्ञानिकाः आतुरालयस्य विविधविभागाः च सज्जाः इति भैषज्यसंधेन आवेदितम्।
आन्ध्राप्रदेशस्य पूर्वमुख्यमन्त्री चन्द्रबाबु नायिडुः निग्रहीतः।
बंगलूरु> टि डि पि अध्यक्षः तथा आन्ध्राप्रदेशस्य पूर्वमुख्यमन्त्री चन्द्रबाबु नायिडुः आरक्षकैः निग्रहीतः। अन्ध्राप्रदेशस्य नन्द्यालतः दोषान्वेषण-विभागेन एव निग्रहीतः। मानवसंसाधन आयोगानुबन्धतया कृते अलेके भवति निग्रहणम्। २०१४ तमे मुख्यमन्त्रीपदे विराजमानः नायिडुः तस्मिन् समये तन्त्रांशसंबन्धतया वाग्दानपत्रे हस्ताक्षरं कृतवान्। तस्मिन् प्रक्रमे इदानीम् अलीकव्यवहारः जातः अस्ति। विषयेस्मिन् एतस्य पुत्रः नारयणलोकेषः अपि निग्रहीतः अस्ति।
जि २० - बैडनः भारते, नरेन्द्रमोदिनं मिलितवान्।
नवदिल्ली> भारते समारभ्यमाणे जी २० शिखरमेलने भागं स्वीकर्तुं विविधानां राष्ट्राणां नेतारः समागताः। नवदिल्लीस्थे विमाननिलये अवतीर्णः अमेरिक्कस्य राष्ट्रपतिः अवतीर्णः बैडनः दिल्लीस्थे हैदराबाद् अतिथिमन्दिरे नरेन्द्रमोदिना सह समुन्नतालोचनां उभयोपयोगिनीं राजकीयचर्चां च कृतवान्। यु के राष्ट्रस्य प्रधानमन्त्री ऋषि सुनक् अपि समागतेषु सन्ति। शिखरमेलनं सेप्तंबर् ९, १० दिनाङ्के भविष्यति।
सप्तमण्डलेषु उपनिर्वाचनं सम्पन्नम्।
कोच्ची> केरलस्य पुतुप्पल्लीमभिव्याप्य राष्ट्रस्य सप्तसु विधानसभामण्डलेषु उपनिर्वाचनानि मङ्गलवासरे सम्पन्नानि।
पुतुप्पल्लीं विना झार्खण्डराज्यस्थे धूम्रि, त्रिपुरे धनपुरं, बोक्सानगरं, बागेश्वरम्, [उत्तरखण्डः],घोसि [उत्तरप्रदेशः], धूपगुडी [पश्चिमवंगः] इत्येषु मण्डलेषु अपि उपनिर्वाचनानि सम्पन्नानि।
प्राथमिकगणनामनुसृत्य धूम्रि - ६४. ८४%, धनपुरं - ७६ %, बोक्सानगरं ७६ %, बागेश्वरं ५५. ४४%, घोसि - ५०. ३०%, धूपगुडी - ७६%, पुतुप्पल्ली - ७५% इति रीत्या मतदानानि विधत्तानि। श्वः मतगणना भविष्यति।
चन्द्रे 'विक्रमः' निद्राति। निद्रायाः पूर्वं स्थानपरिवर्तनम्।
![]() |
| अवतारकः परिभ्रामकः च। [Lander & Rover] |
चेन्नै> भारतस्य चान्द्रपर्यवेक्षणपेटकं विक्रमनामकम्, आगामि १४ दिनानि पर्यन्तं सुप्तावस्थायां प्राप्तवत्। चन्द्रमण्डलस्य दक्षिणध्रुवे यत्र यानमवतारितं, तत्र गतदिनादारभ्य १४ दिनानि सूर्यप्रकाशपतनस्याभावात् - १८० डिग्री पर्यन्तं तापमानं निम्नं भवेदित्यतः एव 'लान्डर्' 'रोवर्' इत्येतत् यन्त्रद्वयं च सुप्तावस्थां प्रापयितुं इस्रो संस्थया निश्चयः कृतः। अत्यधिक निम्नतापमतिजीव्य एतौ सेप्तम्बर् २२ इत्यस्मिन् दिनाङ्के उत्थापयिष्यतः इति प्रतीक्षायामस्ति इस्रो।
निद्राप्रापणात् पूर्वं विक्रमनामकम् अवतीर्णकं [Lander] चन्द्रोपरितलात् ४० सेन्टीमीटर् परिमितमुन्नीय ३० सेन्टीमीटर् परिमितं स्थानान्तरं कृत्वा एव निद्रायै सिद्धतामकरोत्।
सूर्यसविधं याति 'आदित्य एल्' १।
सूर्यम् उपगम्य अनुशीलनाय भूतलात् आदित्य एल् १ इति यत् बाह्याकाशयानं प्रेषितं तत् स्वस्य यात्रा समारब्धा। चन्द्रयानस्य चन्द्रोपरितलप्राप्तेः सफलतायाः अनन्तरं भवति इयं सैरयात्रा। कतिपयनिमेषात् पूर्वं ११:५० वादने आरब्धा भवति इदं बाह्याकाशयानम्। पि एस् एल् वि पि ५७ इति आकाशबाणः आदित्य एल् १ इति बह्याकाशयानं ऊढ्वा गच्छन् अस्ति। श्रीहरिकोट्टायां विद्यमानात् सतीष् धवान् बाह्याकाशनिलयात् आसीत् अस्य उद्गमनम् ।
पाणिनिसंस्कृतविश्वविद्यालये विशिष्टव्याख्यानं सञ्जातम्॥
-वार्तासंयोजक: डॉ.दिनेश:चौबे
गुरुकुलमाध्यमेन अस्माकं शास्त्राणि रक्षितानि भवेयुः। व्यवहारिकरूपेण आयुर्वेदादिशास्त्राणि कथं प्रयुक्तानि भवेयुरिति चिन्तनीयमस्माभिः। न कण्ठस्थीकरणेन अपि तु व्यवहारेणैव शास्त्राणां संरक्षणं भवेत्। शास्त्ररक्षणाय इतोऽपि नानाविधान्युपायानि तेन उक्तानि, यानि युट्युब्-मध्ये उपलभ्यते, भवद्भिः तत्रैव श्रूयताम्।
कार्यक्रमस्य आदौ वैदिकमङ्गलाचरणं तदनु विश्वविद्यालयस्य कुलगानं च अभवत्। व्याख्यानसत्राणां सत्राध्यक्षरूपेण विश्वविद्यालयस्य माननीयः कुलपतिः प्रो. सि. जी. विजयकुमारमेननमहोदयः आसीत्। महोदयेन सभा सम्बोधिता संस्कृतसप्ताहसमरोहस्य शुभकामनाः च प्रदत्ता। कार्यक्रमसंयोजकः वेदव्याकरणविभागाध्यक्ष:, डॉ.अखिलेशकुमारद्विवेदीमहोदय: वर्तते। कार्यक्रमस्य सञ्चालनं डॉ.दिनेशचौबेमहोदयेन, आभारप्रदर्शनं डॉ. शङ्करबेरामहोदयेन कृतम्। कल्याण मन्त्रेण सह सभा समाप्ता जाता।
संस्कृतं भारते एव न अपि तु विदेशेषु अपि भाष्यते- कुलदीपमैन्दोला
संस्कृतभारतीपौडी इत्यस्य सहसंयोजकः कुलदीपमैन्दोला छात्रान् संस्कृतभाषायाः, वेदभाषायाः संस्कृतस्य च महत्त्वस्य विषये अवदत् यत् संस्कृतं न केवलं गुरुकुले अपितु समाजे अपि अस्ति । संस्कृतं भारते एव न अपि तु विदेशे अपि पठ्यते। अमेरिका, जर्मनी, फ्रान्स, वियतनाम इत्यादिषु विदेशेषु विद्यालयेषु अपि अस्य अध्यापनं प्रचलति। 1983 तमे वर्षे आदिशङ्कराचार्येन संस्कृतभाषायां प्रथमं चलच्चित्रं निर्मितम्, येन अनेके राष्ट्रियपुरस्काराः प्राप्ताः।
भगवद्गीता, महाभारतं, रामायणं इत्यादीनि अनेकानि नामानि परिगणयितुं शक्यन्ते। अधुना अनेकेषु दूरदर्शनमालायां संस्कृतस्य स्थानं दीयते । केन्द्रीयसंस्कृतसंस्था यूट्यूब-फेसबुकादि-माध्यमेन लघु-चलच्चित्र-निर्माण-आदि-बहुभिः कार्यक्रमैः संस्कृतस्य प्रचारं कुर्वती अस्ति । संस्कृतं शिक्षितुं अद्यत्वे अस्माकं स्मार्त्जंगमवाण्यां प्लेस्टोर इत्यत्र 'संस्कृतकल्पतरु:', 'संस्कृतसम्भाषणं' इत्यादयः बहवः अनुप्रयोगाः वर्तन्ते।
कण्वनगर्यां कण्वाश्रमत: कलालघाटीपर्न्तं सायंकाले संस्कृतभारत्याः आश्रयेण कार्यकर्तारः गुरुकुलस्य छात्राः च नगरे संस्कृतस्य प्रचारार्थं संगोष्ठीम् आयोजयित्वा संस्कृतदिने शोभायात्राम् अकुर्वन्। शोभायात्रायां छात्राः - अभिमन्युः शिवाङ्गः च संस्कृतगीतानि गायन्ति स्म - मनसा सततं स्मरणीयं च सुरससुबोधविश्वमनोज्ञा, अङ्कुशपाण्डेयः भार्गवश्च शिवताण्डवं शिवपञ्चाक्षरस्तुतिं च गायन्ति स्म, सायंकाले भ्रमणं कुर्वन्तः जनाः अपि च परितः जनाः अपि गानम् सहैव आरब्धवन्तः ते।
आचार्य: नीरजहिन्दवानः जयतुसंस्कृतम् - जयतु भारतम्, जयतु - जयतु संस्कृतभाषा, प्रधानमंत्री मोदी वदति संस्कृतभाषा, राज्यसभायां संस्कृतभाषा इत्यनेन जयघोषेण संस्कृतदिवसस्य विषये जनान् अवगतं कारितवान् ।कण्वाश्रमतः प्राप्तस्य सभायाः पुनः कलालघाटीपर्यन्तं समाप्तिः अभवत्। शोभायात्रा अत्र दर्शनीया आसीत् । आचार्य: अरविन्दः शोभायात्राकार्यक्रमस्य फेसबुक् इत्यादिषु त्वरितप्रसारणं कृतवान् । प्रवक्ता रोशनबलूनीवर्य: स्वकीयवक्तव्ये समेभ्य: संस्कृतबान्धवेभ्य: शुभकामनाम् अयच्छत् । अवसरेस्मिन् आशीषनैथानी, राकेश:, कमलेश:, योगीराज:, हिमांशु:, विष्णु: आदय: छात्रा: उपस्थिता: आसन् ।
कण्वनगर्यां विश्वसंस्कृतदिवसोपलक्ष्ये शोभायात्राया: अभवत् आयोजनम्।
शोभायात्रायां गुञ्जितस्तोत्रेण दर्शका: मोहिता: अभवन्
आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा-'पंकजध्यानी'
वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं।
रक्षाबन्धनस्य पावनपर्वणि परमार्थनिकेतनगुरुकुलकण्वाश्रमकोटद्वारस्य संस्कृतभारतीकोटद्वारस्य च संयुक्ताश्रयेण संस्कृतदिवसस्य अवसरे प्रातःकाले सर्वे ब्रह्मचारिणः गायत्रीमन्त्रसूर्यदेवस्य ध्यानं कृत्वा यज्ञोपवीतसंस्कारे यज्ञोपवीतं धृतवन्त: विद्यालयस्य मुख्याध्यापकस्य श्रीमनमोहननौटियालस्य निर्देशानुसारं सर्वे छात्राः, आश्रमवासिनः, अभिभावकाः च हवनं कृतवन्तः। संस्कृतदिवसस्य कार्यक्रमे छात्रैः श्रीमद्भागवद्गीता अन्त्याक्षरी, आशुभाषणं, श्लोक-पाठ: तथा नृत्यादिकं प्रस्तुतं । आचार्यमनमोहननौटियालः अस्मिन् अवसरे उक्तवान् यत् संस्कृतभाषा भारतस्य आत्मा अस्ति, भारतस्य प्रतिष्ठा केवलं संस्कृते एव वर्तते। संस्कृतं प्रति छात्राणां उत्कर्षः क्षीणः भवति, सः एकस्मिन् दिने चिन्तनीयः प्रश्नः अस्ति। वयं भारतीयाः सनातनीया: स्मः ये सर्वेषां हिताय प्रार्थयामः।
संस्कृतभारत्या: जनपदप्रचारक: आचार्यसिद्धार्थनैथानी इत्यनेन उक्तं यत् “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” संस्कृतभाषा राष्ट्रस्य प्रगतेः कृते आवश्यकी अस्ति। अस्माकं पुराणोपनिषद: जीवनस्य पाठं शिक्षयन्ति यत् जीवनं कथं सार्थकं कर्तव्यम् इति। भवतु 'वसुधैव कुटुम्बकम्' इति उक्तिः वा 'सह नाववतुः सह नौ भुनक्तुः' इत्यादय: परम्पराः, अस्मान् एकस्मिन् सूत्रे विना किमपि भेदभावेन परिवारवत् एकत्रितं करोति ।
संस्कृतजिल्लासंयोजकः पंकजध्यानी अवदत् यत् संस्कृतभारती संस्कृतं पुनः वाच्यभाषां कर्तुं प्रवृत्ता अस्ति। १९८१ तमे वर्षे सम्पूर्णे विश्वे संस्कृतभाषायाः पुनरुत्थानाय एतस्या: संस्थायाः स्थापना कृता । संस्कृतं भारतस्य अतीव प्राचीनभाषा अस्ति किन्तु दुर्भाग्येन आधुनिककाले अस्याः उपेक्षा क्रियमाणा वर्तते। आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा अस्ति ।
श्रावणपूर्णिमायां संस्कृतविद्यालयभुवनेश्वर्याम् अभूत् उपनयनसमारोहः ।
वार्ताहर:-कुलदीपमैन्दोला।पौडी।
श्रावणपूर्णिमायाः शुभावसरे अस्मिन् वर्षे अपि महता उत्साहेन नवप्रवेशकानाम् उपनयनं संस्कृतेः च पूर्वं विद्यालयस्य परम्परानुसारेण ३० अगस्तस्य सायंकाले छात्र-शिक्षक-अभिभावक-सम्मेलनावसरे आयोजनं सञ्जातं । विद्यालयस्य प्रधानाचार्यः अनसुयाप्रसादसुन्दरियालः वरिष्ठशिक्षिक: नवीनजुयालः च अवदताम् यत् सर्वतोन्मुखीविकासे अभिभावकानां अपि महत्त्वपूर्णा भूमिका अस्ति। यदि वयं भवतां सर्वेषां समर्थनं प्राप्नुमः तर्हि अस्माकं छात्राः दूरं पुरतः गमिष्यन्ति। वयं सम्पूर्णं च दलं बहु परिश्रमं कुर्मः। अत्र कठिनपरिस्थितौ प्राप्ताः।अधुना यदा यदा परिणामाः आगच्छन्ति तदा तदा उत्तमं भवति। अभिनन्दनम् सर्वेषां मातापितरौ छात्राणां च शुभकामना।
संस्कृतसप्ताहस्य अन्तर्गतं छात्राध्यापकैः मातापितृभिः च उत्साहेन शोभायात्रा जनजागरणाय विहितं । विविधैः संस्कृतगीतैः इत्यादिभिः ततः ३१ अगस्तदिनाङ्के श्रावणपूर्णिमायाः शुभावसरे नित्यपूजनादि वा यज्ञोपवीतसंस्कारस्य समाप्तेः अनन्तरं सर्वेषां कृते आचार्यनवीनममगांई प्रोक्तवान् यत् षोडशसंस्कार: भारतीयसंस्कृते: परिचय: विद्यते । एतेषां संस्काराणाम् आरम्भ: याग्योपवीतस्य अनन्तरं भवति, संस्कार: आचार्येण अनूपद्वारा सम्पन्नोभवत् । आचार्य: कमलदीप:, आशीष: नवीन: अनूप: आदिभि: गुरुमंत्र: गृहीत:, अन्यशिक्षकै: सह ईशानडोभाल:, नीरजपटवाल:, अंकितमैठानी, भाजपानेता वीरेन्द्रजुयाल: अभिभावका: च उपस्थिता: आसन् ।
नीरज चोप्रः प्रासमहाराजः।
प्रासक्षेपणे ओलिम्पिक्स् सुवर्णेन सह विश्वकायिकस्पर्धायामपि सुवर्णप्राप्तिः।
बुडापेस्ट> मध्ययूरोपस्थस्य हङ्गरीराष्ट्रस्य राजधान्यां बुडापेस्ट् नगरे आयोजिते विश्वकायिकवीरताप्रदर्शने भारतस्य नीरज चोप्रः कुन्तक्षेपणस्पर्धायां सुवर्णपतकेन विश्वविजयी जातः। ८८. १७ मीटर् परिमितं दूरं कुन्तक्षेपणं कृत्वा एव सः विश्वकिरीटं प्राप्तवान्। टोकियो ओलिम्पिक्स् स्पर्धायाम्, एष्यन् गयिंस्, कोमण्वेल्त् गयिंस्, डयमण्ड् लीग् इत्यादिषु स्पर्धासु च तेन सुवर्णपदकं प्राप्तम्।
८७. ८२ मीटर् परिमितक्षेपणेन पाकिस्थानीयः अर्षादनदीमः रजतं, ८६. ६७ मीटर् परिमितक्षेपणेन चेक् राष्ट्रस्य याकूब वेदलः कांस्यपतकं च प्राप्तवन्तौ।
सौरपर्यवेक्षणाय 'आदित्यः एल् - १' शनिवासरे सूर्यमुद्गमिष्यति।
बङ्गलुरु> भारतस्य प्रथमं सौरपर्यवेक्षणपेटकं 'आदित्यः एल् - १' नामकस्य विक्षेपणं सेप्टम्बर् द्वितीयदिनाङ्के [शनिवासरे] विधास्यति। मध्याह्ने ११. ५० वादने श्रीहरिक्कोट्टस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् पि एस् एल् वि - सि ५७ नामकविक्षेपणीद्वारा विक्षेपः भविष्यति।
चन्द्रयानं - ३ इत्यस्य दौत्यं विजयकरेण अनुवर्तते इत्यात्मविश्वासस्य भूमिकायामेव सूर्यानुशीलनाय 'इस्रो'संस्थायाः उद्यमः। ३६८ कोटिरूप्यकाणां व्ययमेव अस्मै दौत्याय प्रतीक्षते।
सूर्यस्य बहिर्भागस्य तापभेदं, सौरप्रभञ्जनस्य फलानि च अवगन्तुमेव लक्ष्यम्। भारतेन स्वयमेव विकासितैः 'पेलोड्' नामभिः सप्तभिः उपकरणैः सूर्यानुशीलनं विधास्यति। तदर्थं भूमेः १५ लक्षं कि मी दूरे एल् १ इति कृतनामधेयं केन्द्रं पेटकं प्रापयिष्यति।
पाकवातकस्य मूल्यम् २०० रूप्यकाणि न्यूनीकृतम्।
नवदिल्ली> महानसे समाश्वासं वितीर्य पाकवातकस्य मूल्यम् २०० रूप्यकाणि न्यूनीकृतम्। ३३ कोटि जनेभ्यः अयं निश्चयः समाश्वासं ददाति। पि एम् उज्वल योजानायां अन्तर्भूतेभ्यः अधिकतया २०० रूप्यकाणां समाश्वासः लभते इति केद्रमन्त्रिणा अनुराग् ठाकुरेण उक्तम्। अर्हाणां वित्तलेखेषु राशिः प्रत्यर्पितः भविष्यति।
डॉ.संकल्पमिश्र: राजस्थान सर्वकारस्य संस्कृतयुवप्रतिभा-पुरस्काराय चित:
डॉ.दिनेश:चौबे , उज्जयिनी
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य वेदविभागस्य वरिष्ठाचार्य: डॉ.संकल्पमिश्रमहोदयः राजस्थान-सर्वकारस्य संस्कृतयुवप्रतिभा - पुरस्काराय चयनित: जात:। अस्य मासस्य २९तमे दिनाङ्के प्रातः एकादशवादनत: प्रदेशस्य राजधान्यां जयपुरनगरे विरला मण्डपसभागारे समायोज्यमाने संस्कृतदिवससमारोहे प्रदेशस्य शिक्षामन्त्रिणा करकमलाभ्यां संस्कृतयुवप्रतिभा - पुरस्कारः प्रदास्यते अस्मिन् पुरस्कारे २१०००/ पुरस्कारराशि: प्रशस्तिपत्रं च् दीयते। अयं पुरस्कारः प्रतिवर्षं संस्कृत भाषायां उत्कृष्टयोगदानार्थं युवविद्वद्भ्यः प्रदीयते।