OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 26, 2024

 सूर्यप्रकाशस्य अभावे अपि सागरान्तर्भागे जीववायोः प्रभवः।

   पसफिक् समुद्रस्य अधः १३०० पादमिते अगाधे स्थाने प्राणवायोः उत्पत्तिस्थानम् अस्ति इति वैज्ञानिकः। प्रोफ. आन्ट्रू स्वीटमान् नामकस्य भवति इदं नूतनाध्ययनम्। मनुष्यस्य प्राणवायोः भूरिः सागरान्तर्भागे विद्यमानायाः 'आल्गा ' इति शैवलसस्याः सूर्य प्रकाशस्य साहाय्येन निर्मितम् इत्यासीत् विश्वासः। किन्तु अधुना नूतनोऽयं अनुशीलनांशः बहिः प्रकाशितः। सागरस्य अन्तर्भागषु दृश्यमनात् अयोसंयुक्तात् जीववायुः स्वयं बहिरागच्छति इत्यस्ति नूतनम् अनुशीलनम्॥

 कार्गिल् विजयस्य अद्य २५ वयांसि। 

भीकरवादम् उन्मूलयिष्यति - प्रधानमन्त्री। 

कार्गिल्> १९९९ तमे वर्षे सम्पन्ने भारत-पाकिस्थानयुद्धे भारतस्य विजयं स्मारयन्तः विजयदिवसः अद्य आघुष्यते। प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च कार्गिल् युद्धस्मारकं सन्दर्श्य पुष्पचक्रं समर्पितवन्तौ। 

  कार्गिल् विजयदिवसः सत्यस्य विजयदिवसः इति युद्धे वीरमृत्युंगतानां  सैनिकानां परिवाराङ्गान् आदृत्य प्रधानमन्त्री अवोचत्। भीकरवादं उन्मूलयिष्यतीति सः संसूचितवान्। 

  १९९९ मेय् मासतः सार्धद्विमासं यावत् अनुवर्तमाने युद्धे ५२७ भारतीयभटाः वीरमृत्युं प्राप्ताः।

 ओलिम्पिक्स् महोत्सवाय अद्य दीपप्रज्वालनम्। 

उद्घाटनवेदिका, ट्रोको दरो क्रीडाङ्कणम्। 

   # जूलाय् २६ तः आगस्ट् ११ पर्यन्तम्। # ३२ अधिकरणेषु १०,५०० ताराणि। # ३५ वेदिकासु ३२९ स्पर्धाः। 

   > विश्वविख्यातस्य ओलिम्पिक्स् कायिकस्पर्धामहोत्सवस्य ३३ तम संस्करणाय अद्य सायं पारीसराष्ट्रे शुभारम्भः भविष्यति। फ्रञ्च् समये ८. २४ वादने गयिंस् वेदिकायां दीपशिखाप्रोज्वलनेन औद्योगिकप्रारम्भं करिष्यति। 

     ओलिम्पिक्सस्य चरित्रे इदंप्रथमतया उद्घाटनमहामहः अनाच्छादितवेदिकायां क्रियते। सेन् नद्यां आयोज्यमानस्य ताराणां प्रस्थानस्य [March past] अनन्तरं ईफल् गोपुरस्य पुरतस्थे 'ट्रोको दरो' क्रीडाङ्कणे होरत्रयात्मकः उद्घाटनसमारोहः विधास्यति। 

    आहत्य ३२ अधिकरणेषु १०,५०० कायिकप्रतिभाः स्पर्धिष्यन्ति। ३५ वेदिकासु ३२९ स्पर्धाः आगामिषु १६ दिनेषु भविष्यन्ति।

Thursday, July 25, 2024

 नेपाले लघुविमानं विशीर्य १८ मरणानि। 

काठ्मण्डुः> नेपालराष्ट्रे कस्याश्चित् निजीयसंस्थायाः लघुविमानम् उड्डयनावसरे विशीर्य १८ विमानकर्मकराः मृताः। विमानचालकः गुरुतरव्रणितावस्थया आतुरालयं प्रवेशितः। आहत्य १९ जनाः विमाने आसन्। 

  राजनगरे काठ्मण्डुमध्ये बुधवासरस्याहनि ११. १० वादने आसीत् दुर्घटना। भारत-नेपालसंस्थायाः शौर्या एयर् लैन्स् इत्यस्य विमानमेव दुर्घटनायां निपतितम्।

 भूमेः अभ्याशे वज्रसम्पन्नः ग्रहः ! नूतनमार्गदर्शकम् अध्ययनम् ।

  भूमौ संदृश्यमानम्अत्यमूल्यं रत्नं भवति वज्रम्। अतिकठोरमिदं रत्नं प्रकृतिजन्यवस्तुरिति गणयन्ति। सौरयूथे भूमेः समीपस्थे बुधग्रहे वज्रस्य बृहत् सञ्चयः भवेत् इति नूतनाध्ययनानि सूचनां ददाति। बुधग्रहस्य उपरितले कार्रबण् वातकस्य आधिक्यमस्ति। बुधग्रहस्य अन्तभार्गः५० कि. मि. यावत् अगाधं भवेत् इति २०१९ तमे कृताध्ययने संसूचितमस्ति। एतत् तापमानस्य मर्दस्य च वर्धनाय प्रभवेत्। तस्य कार्बण् वातकस्य वर्जरूपेण परिवर्तनाय अनुकूलः सन्दर्भः भवति इति अध्ययने सूचयति।

Wednesday, July 24, 2024

 नव दिनान्यतीतानि।

अर्जुनः इदानीमपि अदृश्यमानः वर्तते। 

केरलाः सर्वे प्रार्थनापूर्वं प्रतीक्षन्ते। 

अर्जुनाय मार्गणमनुवर्तते। 

षिरूर्> नव दिनेभ्यः पूर्वं उत्तर कन्नडे भूस्खलनेन गङ्गावलीनदीतीरे  अप्रत्यक्षः केरलीयः भारवाहकचालकः अर्जुननामकः इतःपर्यन्तं न दृष्टः। प्रचण्डवर्षा‌-वाय्वादि प्रतिकूलवातावरणं तृणवत्कृत्य शताधिकैः स्थलनाविकसेनाङ्गैः सन्नद्धभटैः च क्रियमाणम् अन्वेषणं सफलतां न प्राप्तम्। 

   गते १६तमे दिनाङ्के  कोष़िक्कोट् जनपदीये अर्जुने भारवाहकं गङ्गावलीनदीतीरे स्थाप्य तस्मिन्नेव विश्रान्तिं कृते पार्श्वस्थमुन्नतः गिरिशिखरः स्खलित्वा अधः पपात। दुर्घटनायाः परं तृतीयदिने एव बाह्यलोकेन एतस्याः गौरवमभिज्ञातम्। आधुनिकोपकरणैः कृते अन्वेषणे भारवाहकमिति सन्दिह्यमानाः  द्वित्राः सङ्केतसंज्ञाः [signals] लब्धाः अपि मार्गणं व्यर्थमभवत्। श्वः आरभ्य नद्याः अन्तर्भागे मार्गणाय निश्चयः कृतः यतो हि तत्र अर्जुनस्य भारवाहकमिति सन्दिह्यमाना सङ्केतसंज्ञा लब्धा इति अधिकारिभिः सूचितम्।

 सख्यपक्षेभ्यः यथेष्टं ; मध्यवर्गजनेभ्यः आश्वासः।

केन्द्रसर्वकारस्य आयव्ययपत्रम् अवतारितम्। 

नवदिल्ली> निर्वाचनप्रत्याघातस्य पाठं प्रत्यभिज्ञाय सामान्यजनान्, मध्यवर्गान्, कृषकान् च अनुभावेन परिगणय्य निर्मला सीतारामः नरेन्द्रमोदिसर्वकारस्य अस्य आर्थिकसंवत्सरस्य आयव्ययपत्रम् अवतारयत्। तृतीयमोदिसर्वकारस्य प्रथमे वित्तसङ्कल्पने सर्वकारस्य सुगमप्रयाणे पक्षद्वयेन वर्तमानाभ्यां आन्ध्रप्रदेश बिहार राज्याभ्यां सविशेषं आर्थिकसाह्यभाण्डं प्रख्यापितम्। 

  बिहाराय २६,०००कोटिरूप्यकाणां वीथीपरियोजना आन्ध्रप्रदेशाय १५,००० कोटिरूप्यकाणां सविशेषसाह्यं च उद्घोषितम्। 

  कार्षिकक्षेत्राय १. ५२ लक्षं कोटि रूप्यकाणि अनुमोदितानि। ग्रामीणविकासाय २. ६६ लक्षं कोटि, आधारसुविधाविकासपरियोजनायै ११. ११लक्षं कोटि च रूप्यकाणि अनुमोदितानि।तथा च आयकरस्य स्तरे आनुकूल्ययुतः  परिष्कारः विहितः।

 ऐ एन् एस् ब्रह्मपुत्रो नाम युद्धनौकायां अग्निबाधा। नाविकः अप्रत्यक्षो जातः। 

   नाविकसेनायाः ऐ एन् एस् ब्रह्मपुत्रः नाम युद्धनौका अग्निना बाधिता। मुम्बैदेशे नाविकसेनायाः महानौकायाः निर्माणाकारे जीर्णोद्धारणक्रियावेलायामेव घटनेयं दुरापन्ना। अग्निशमनसेनायाः साहाय्येन अग्निः नियन्त्रणविधेयः अभवत् तथापि महानौका पार्श्वमुखीभूय पतिता। भारतेषु इंदप्रथमतया स्वदेशे आविष्कृतायाः महानौकायाः जलावरोहणं२००२ एप्रिल् मासस्य १४ तमे दिनाङके एव कारितम् आसीत्।

Tuesday, July 23, 2024

 भारतस्य ७% अभिवृद्धिः भवेदिति वित्तीयं समग्रवीक्षणम्। 

नवदिल्ली> अस्मिन् आर्थिकवर्षे भारतस्य ६. ५% आरभ्य सप्त प्रतिशत पर्यन्तम् आर्थिकाभिवृद्धिं प्रतीक्षमाणं आर्थिकावलोकनपत्रं वित्तमन्त्रिणी निर्मला सीतारामः संसदि अवतारितवती। गतवर्षे अष्ट प्रतिशतस्य वृद्धिरासीदिति अवलोकनपत्रं अभिमानीकरोति। 

  ऐषमसंवत्सरस्य अवलोकनपत्रे समग्रः कार्षिकपरिष्कारः निर्दिश्यते।

Monday, July 22, 2024

 केन्द्रसर्वकारस्य वित्तसङ्कल्पनपत्रं श्वः। 

नवदिल्ली> तृतीयमोदिसर्वकारस्य प्रथमं वित्तसङ्कल्पनपत्रं श्वः वित्तमन्त्रिणी निर्मला सीतारामः संसदि अवतारयिष्यति। निर्मला सीतारामस्य अनुस्यूतम् अष्टमम् आयव्ययपत्रमेव अवतार्यमाणं वर्तते।

Sunday, July 21, 2024

 पञ्चमदिने अपि अर्जुनः अदृश्यः वर्तते। अन्वेषणाय सेना अपि। 

षिरूर्> उत्तरकर्णाटके षिरूर् प्रदेशे भूस्खलनेन मृदन्तर्भूतः केरलीयः अर्जुनः ह्यस्तनान्वेषणे अपि दृष्टः नाभवत्। रडार् उपयुज्य भारवाहकयानस्य स्थानमधिगन्तुं प्रयत्नः कृत अपि पूर्णफलप्राप्तिः नाजायत। प्रतिकूलपर्यावरणेन गतरात्रौ अन्वेषणं समापितम्। 

  अर्जुनस्य परिवारस्य अभ्यर्थनेन अन्वेषणाय सैन्यस्य साहाय्यं अद्य आरभ्य भविष्यति। दिनत्रयस्यापि विफलप्रयत्नस्य आधारे करणाटकसर्वकारेणापि सेनासाह्यम् अभ्यर्थितमासीत्। सेनायाः प्रथमसंघः रविवासरे प्रयत्नमारप्स्यत इति मेजर् जनरल् विनोद् मत्यू न्यवेदयत्।

 अमेरिकाराष्ट्रस्य राष्ट्रपतिपदे कमला हारिसः भविष्यति।

अमेरिकाराष्ट्रस्य राष्ट्रपतिपदे कमला हारिसः भविष्यति इति जो बैटन: सूचयति। डेमोक्राट्टिक् दलस्य अध्यक्षः भवति बैडनः। इदानीं अध्यक्षस्थानाय प्रचाल्यमानात् स्थानशीस्पर्धातः बैडनः दूरं पलनीयम् इत्यस्ति दलियानां जनानाम् आवश्यकता। अवसरेऽस्मिन् भवति कमला हारिसनः राष्ट्रपति पदे भविष्यति इति   जो बैडनस्य सूचना। नवंबर् मासस्य पञ्चमदिनाङ्के भवति निर्वचनम् । स्थानशि रूपेण ट्रम्पः च स्पर्धिष्यति।

 केरले 'निपा'ज्वरबाधा - राज्ये जागरणनिर्देशः। 

मलप्पुरम्> केरलराज्ये पुनरपि निपा नामकवैराणुज्वरस्य आविर्भावः वृत्तान्तीकृतः। मलप्पुरं जनपदे पाण्टिक्काट् प्रदेशीयः १४ वयस्कः बाल एव निपाबाधया आतुरालयं प्रवेशितः। 

  अस्मिन् मासे दशमदिनाङ्के ज्वरबाधया चिकित्सामारब्धस्य तस्य सप्ताहस्यानन्तरमपि ज्वरस्य शमनं नाभवत्। एतदाभ्यन्तरे मस्तिष्कज्वरोSपि अबाधत। सन्दिग्धाः चिकित्सकाः केरलस्थं तथा पूणैस्थं वैरोलजि संस्थां प्रति स्रवपरिशोधनाय आदेशं कृतवन्तः। तत्र निपारोगः दृढीकृतः। 

  बालकः इदानीं कोष़िक्कोट् आतुरालये तीव्रपरिचर्याविभागे वर्तते। आराज्यं विशिष्य मलप्पुरं कोष़िक्कोट्  जनपदद्वये तीव्रजागरणं निर्दिष्टम्।

Saturday, July 20, 2024

 जलाशयानां पुनःसृष्टिरपि राज्यानां धार्मिकता - सर्वोच्चन्यायालयः। 

नवदिल्ली > न केवलं जलस्रोतसां संरक्षणं किन्तु नीतिविरुद्धेन आपूरितानां जलस्रोतसां पुनःसृष्टिरपि राज्यसर्वकाराणां धर्म इति सर्वोच्चन्यायालयेन निर्दिष्टम्। उत्तरप्रदेशे बिजनोरजनपदे जलस्रोतांसि नीतिविरुद्धतया आपूरितानीति प्रकरणे अन्वेषणसमितिं नियुज्य आसीत् नीतिपीठस्य निरीक्षणम्।

 उत्तरकर्णाटके राजमार्गे भूस्खलनं - १० जनाः मृताः; भारवाहनेन सह एकः मृदन्तर्भूतः। 

बङ्गलुरु> उत्तरकर्णाटके अङ्कोलासमीपे षिरूरप्रदेशे पनवेल् - कन्याकुमारी राष्ट्रियमार्गे भूस्खलनेन दश जनाः मृत्युं गताः। मार्गपार्श्वे स्वस्य भारवाहकयाने  विश्रान्तिमुपस्थितः केरलीयः मृदन्तर्भूतः इति सन्दिह्यते। कोष़िक्कोट् जनपदीयः अर्जुन नामकः एव भारवाहकेन सह अप्रत्यक्षः। 

  जूलाय् १६ तमे दिनाङ्के आसीत् दुर्घटना। किन्तु ह्यः अर्जुनस्य परिवारस्य निवेदनेनैव घटनेयं गौरवास्पदमवर्तत। केरलसर्वकारस्य अन्येषां राजनैतिकदलनेतॄणां च सम्मर्देन ह्यः मृन्निष्कासनयन्त्राणि उपयुज्य अन्वेषणमारब्धम्। कठिनवृष्टिः रक्षाप्रवर्तनस्य प्रतिबन्धो वर्तते। ह्यः रात्रौ समापितमन्वेषणं अद्य पुनरारप्स्यते।

Friday, July 19, 2024

 सर्वधर्मसमभाव- प्रतिपादकं समान नागरिकसंहितां स्थापितुमेव लक्ष्यम् इति प्रधानमन्त्री नरेन्द्रमोदी।

नवदिली> सर्वधर्मसमभाव- प्रतिपादकं समान नागरिकसंहितां (Uniform Civil Code) स्थापितुमेव लक्ष्यम् इति प्रधानमंत्री नरेंद्रमोदी स्वातंत्र्यदिनस्य भाषणे अवदत्। प्रशासनस्य परिष्कृतयः राष्ट्रस्य वृद्धये मार्गदर्शिका एव। २०४७ तमे वर्षे भारतं विकसित-राष्ट्रं भविष्यति  इति महोदयः उक्तवान्।  विद्युत्प्रसरणलभ्यता, शुद्धजलसुगमप्राप्तिः, वातावरणस्य सुस्थितिः च वर्धितवेगेन लक्ष्यम् उपगच्छन्तः सन्ति ।  तथा च शीघ्रं न्यायं दातुम्  अन्यायिकपरिष्कृतयः अपि आवश्यकाः इति निर्दिष्टवान्। www.samprativartah.in

Thursday, July 18, 2024

 पारीस् ओलिम्पिक्स् मध्ये स्पर्धितुं ११७ अङ्गभारतसंघः। 

नवदिल्ली> पारीसराष्ट्रे जूलाय् २५ तमे दिनाङ्के आरभ्यमानासु ओलिम्पिक्स् क्रीडासु स्पर्धितुं ११७ भारतीयक्रीडकाः निश्चिताः। क्रीडकैः सह परिशीलकाः सहायिनः अन्ये सेवकाः इत्यादिरूपेण १४० अङ्गाः अपि अनुगमिष्यन्ति। 

  'अत्लटिक्स्' विभागे एव अधिकाधिकं स्पर्धालवः सन्ति - २९ संख्याकाः।  आहत्य १६ विभागेषु भारतस्य स्पर्धा भविष्यति।

 केरलराज्ये संस्कृतभाषायाः 

 विशेषविषयेषु निमयविरुद्धनियुक्तयः अभवन्। 

   गोश्रीपुरम्>केरलराज्यस्य सर्वजनिकसेवा आयोग (KPSC) द्वारा साहित्यं व्याकरणं न्याय: वेदान्त: ज्योतिषम् इत्यादि सविशेषविषयेषु अशिक्षितानाम् उद्योगार्थिनां नियुक्तये श्रमः। प्रत्येकं विषयेषु (Sanskrit Special) स्नातकोत्तरपदवीधराः एव कलाशालायाः छात्रान् अध्यापयितुं योग्याः। किन्तु सामान्यविषयेषु (Sanskrit General) स्नातकोत्तरपदवीधराः नियुक्तिपट्टिकायां प्रविष्टाः। संस्कृतशिक्षाक्षेत्रे ईदृशरीत्या अनवधानतया क्रियमाणा नियुक्तिः न केवलम् अन्येषाम् उद्योगर्थिनाम् अवसरः न्यूनीक्रियते अपि च शास्त्राध्यनस्य गौरवोपि नष्टीक्रियते । अतः नियुक्तयः सर्वाः अवधानपूर्वाः नियमानुसारिण्यः च भवेयुः। नो चेत् संस्कृतमहाविद्यालयानां प्रसक्तिः एव नष्टा भविष्यति।

 केरले शक्ता वर्षा अनुवर्तिष्यते। 

वयनाटे अद्य शैक्षिकविरामः। 

अनन्तपुरी> रविवासरपर्यन्तं आकेरलं तीव्रवर्षा अनुवर्तिष्यते इति केन्द्र पर्यावरणविभागेन निगदितम्। उत्तरकेरलतीरात् गुजरातस्य तीरपर्यन्तं न्यूनमर्दवीथिः वर्तते। तथा च वंगान्तरालसमुद्रे शुक्रवासरे नूतनो न्यूनमर्दः भविष्यति इत्यतः वर्षा अनुवर्तिष्यते। 

  अद्य वयनाट् जनपदे जनपदाधिकारिणा शैक्षिकसंस्थानां विरामः प्रख्यापितः। केरलस्य ११ जनपदेषु ओरञ्ज् जागरणं प्रख्यापितम्।

Wednesday, July 17, 2024

 चिट्टूर् नद्यां लग्नाः चत्वारः अग्निरक्षासेनया रक्षिताः। 

चिट्टूर् नद्यां लग्नान् अग्निरक्षासेना रक्षां करोति। 

पालक्काट्> केरले अतिवृष्ट्या नद्यां जलोपप्लवे जाते नदीमध्यस्थे शिलातले लग्नाः चत्वारः एकपरिवारीयाः अग्निरक्षासेनायाः तीव्रयत्नेन रक्षिताः। मैसुरु पुरीयः लक्ष्मणः [७१],तस्य पत्नी देवी [६५], पुत्रः सुरेशः [३२], पौत्रः विष्णुः [१९] इत्येते मङ्गलवासरे मध्याह्ने चिट्टूर् नद्यां लग्नाः अभवन्। स्नानार्थं नदीं प्राप्ताः ते मन्दप्रवाहस्थाने स्नानं कुर्वत्सु  अप्रतीक्षितः जलोपप्लवः जातः। झटिति तीरं प्रतिनिवर्तयितुमुत्साहवत्स्वपि प्रवाहे शक्ते जाते नदीमध्यस्थं शिलातलम् अभयं प्रापुः। 

  श्रुतवृत्तान्ताः आरक्षकाः स्थानमेत्य जागरणनिर्देशं दत्वा अग्निरक्षासेनामाहूतवन्तः। एतदाभ्यन्तरे मन्त्री के कृष्णन् कुट्टिवर्यः अपि तत्रागत्य रक्षाप्रवर्तने नेतृत्वमावहत्। सार्धैकहोरायाः कठिनप्रयन्तस्य अन्ते सर्वे तीरं प्राप्ताः।

 काश्मीरे भीकरसैनिकप्रतिद्वन्द्वः - चत्वारः सैनिकाः वीरमृत्युं प्राप्तवन्तः।

जम्मु> जम्मु काश्मीरस्य दोडा जनपदे भीकरैः सह प्रतिद्वन्द्वे नेतारमभिव्याप्य चत्वारः सैनिकाः वीरमृत्युं प्रापुः। सोमवासरे रात्रौ नववादने उत्तरदोडायां जम्मु काश्मीरस्य आरक्षकदलेन सह सैन्येन कृते अन्वीक्षणमध्ये आसीत् प्रतिद्वन्द्वः। पञ्च सैनिकाः तीव्रेण आहताः तेषु चत्वारः परं मृत्युमुपगताः। 

  आक्रमणस्य उत्तरदायित्वं पाकिस्थानस्य सहयोगेन प्रवर्तमानस्य जेय्षे मुहम्मद् इत्यस्य पोषकसंघटनं 'काश्मीर् टैगेर्स्' इत्यनेन स्वीकृतम्। नान्तर्भागे निलीयमानेभ्यः भीकरेभ्यः उदग्रयान-ड्रोण् इत्यादिभिः अन्वेषणमारब्धमिति सेनया निगदितम्।

Tuesday, July 16, 2024

 केरले सर्वत्र प्रचण्डवृष्टिः - व्यापकविनाशः, पञ्च मृत्यवः। 

कोच्ची> दिनत्रयेण आकेरलम् अनुवर्तमानायां कठोरवृष्ट्यां सर्वत्र व्यापकविनाशः अभवत्। मध्यकेरले उत्तरकेरले च जनजीवितं दुस्सहं जातम्। मृत्पातेन प्रचण्डवातेन च वृक्षाः उन्मूलिताः, यातायाताः स्थगिताः। निम्नप्रदेशस्थेषु गृहेषु जलोपप्लवः जातः। 

  पालक्काट् जनपदे गृहम् अधःपतित्वा द्वौ मृतौ। अन्यत्र जलसञ्चये निपात्य अन्ये त्रयोSपि मृत्युवशं गताः।

  बह्व्यः नद्यः जलपूरिताः वर्तन्ते। सर्वत्र जागरणनिर्देशः कृतः।

 कोपा चषके अर्जन्टीनायाः मधुरचुम्बनम्। 

कोपाचषकेन सह अर्जन्टीनादलः। 

बेर्लिन्> यू एस् ऐक्यराष्ट्राणां पादकन्दुकवीरताप्रकटनपरम्परायाः अन्तिमे चषकचुम्बनसौभाग्यः अर्जन्टीनायै लब्धः। अधिकसमयं दीर्घिते अत्युत्साहयुतप्रतिद्वन्द्वे कोलम्बियां एकेन लक्ष्यकन्दुकेन पराजित्य एव अर्जन्टीनया  चषकग्रहणं कृतम्। 

    आहत्य १६ वारं अर्जन्टीना कोपाचषकमजयत। अनुस्यूततया द्वितीयवारमेव अयं विजयः। लौटारो मार्टिनसः अर्जन्टीनायै  विजयलक्ष्यं प्राप्तवान्। कोलम्बियायाः हामिष् रोड्रिगसः परम्परायाः क्रीडकवीरपदं प्राप्तवान्।

 कुल्यायां मालिन्यनिर्माजनाय प्रयतितः कर्मकरः मालिन्यप्रवाहे पतित्वा मृतः।

जोयेः कृते विधत्तस्य रक्षाप्रवर्तनस्य विविधदृश्यानि। 

 

मालिन्यविक्षेपसंस्कृतेः बलिदानी भूत्वा जोयि। 

अनन्तपुरी> केरलस्य राजधानीनगरे अनन्तपुर्यां रेल् निस्थानस्य समीपस्थायां कुल्यायां रेल्मार्गाधिकारिणः निर्देशेन पलास्तिकमालिन्यानि अभिव्याप्य सर्वमालिन्यनिर्मार्जनाय प्रयतितेषु शुचीकरणकर्मकरेषु अन्यतमः  कुल्यायां मलिनजलप्रवाहे पतित्वा मृतः। नेय्याटिन्कर प्रदेशीयः मारायमुट्टं वटकरग्रामवासी जोयिनामकः एव शनिवासरे प्रभाते एकादशवादने आपदि मग्नः। 

     अन्यैः कर्मकरैः साकं 'आमयिष़ञ्चान्' नामिकायां कुल्यायां जोयिनामके  मालिन्यनिर्माजनप्रवर्तने क्रियमाणे वर्षाजातं जलप्रवाहं निपत्य रेल् निस्थानस्य अधः १५० मीटर् दीर्घयुतं कुल्यान्तर्भागं प्रति अपनीतः आसीत्। कुल्यायां मनुष्योन्नतेरधिकं उन्नतौ पलास्तिकसहितमालिन्यसञ्चयः अवर्तत इत्यतः रक्षाप्रवर्तनं दुष्करमासीत्। अग्निशमनसेना, निमज्जनकुशलाः, रोबोट् यन्त्रं इत्यादिभिः कृतं 

दिनद्वयस्य रक्षादौत्यं विफलं जातम्। 

   तृतीयदिने - सोमवासरे -  मृतशरीरं एककिलोमीटर् दूरे आमयिष़ञ्चान् कुल्यायामेव तकरप्परम्प् नामके स्थाने नगरसभायाः शुचीकरणप्रवर्तकैः जोयेः चेतनारहितं शरीरं दृष्टमभवत्। अग्निक्षासेनया मृतदेहं कुल्यायाः बहिर्नीत्वा आधिकारिककार्यनिर्वहानन्तरं जोयेः गृहं प्रापयित्वा संस्कारकर्माणि कृतानि। 

  न केवलं नगरवासिनां किन्तु सर्वेषां मानवानां अक्षन्तव्यः अधार्मिकः मालिन्यविक्षेपः  इति दुराचारस्य पुनर्विचिन्तनाय जोयेः बलिदानं कारणं भवेत्।

Monday, July 15, 2024

 डोणाल्ड् ट्रम्पः भुषुण्डितः; व्रणितकर्णः। 

एकः नागरिकः हतः। आक्रमणकारी सुरक्षाभटैःनिहतः। 

डोणाल्ड् ट्रम्पः। 

पेन्सिल् वेनिया> निर्वाचनप्रचारणमध्ये दुरापन्नं हत्याश्रमम् अतिजीव्य यू एस् राष्ट्रस्य भूतपूर्वः राष्ट्रपतिः डोणाल्ड् ट्रम्पः। शनिवासरे सायं ६. ०८ वादने [भारतसमयः रविवासरस्य प्रत्युषसि ३. ३८] प्रचारणसम्मेलने भाषमाणे आसीत् हत्याश्रमः। प्रभाषणवेदिकातः १५० मीटर् दूरस्थस्य भवनस्य उपरि स्थितः युवकः एव भुषुण्डिप्रयोगं कृतवान्।

  दक्षिणकर्णे घर्षितशस्त्रः ट्रम्पः झटित्येव सुरक्षाभटैः रक्षितः आतुरालयं प्रविष्टश्च। सः स्वस्थो वर्तते इति प्रचारणविभागेन निगदितम्।