ब्रिक्स् उच्चशिखरसम्मेलनं श्वः आरभते। 
सम्मेलनस्य प्रचरणार्थं अमृतसरे सज्जीकृते विज्ञप्तिपत्रे चित्रकारस्य वृत्तिः।
नवदिल्ली> भारतेन आतिथ्यं वहमानं ब्रिक्स् उच्चशिखरसम्मेलनं शनिवासरे आरभते। रविवासरे समाप्स्यते। सम्मेलनाभ्यन्तरे विविधराष्ट्रनेतृभिः सह भारतस्य प्रधानमन्त्री नरेन्द्र मोदी उभयराष्ट्रचर्चां विधास्यति। बहवः सदस्यराष्ट्रनेतारः भारतं प्राप्तवन्तः सन्ति।
सम्मेलनस्य अन्ते प्रकाश्यमानाय संयुक्तप्रस्तावाय ऐकरूप्यं दुष्करमिति सूच्यते। पश्चिमेष्यासंघर्षस्य पश्चाद्भूमिकायां ११ सदस्यराष्ट्राणां नयतन्त्रोद्योगस्थाः अनुरञ्जितप्रस्तावं सज्जीकर्तुम् अतिक्लेशमनुभवन्ति। इरानं, यू ए ई, सौदी अरेब्याराष्ट्राणि तर्कविषयेषु विरुद्धमतानि स्वीकुर्वन्ति इत्यतः अनुरञ्जनं दुष्करमस्ति।














