OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 1, 2021

भारते कोविड्बाधा प्रतिदिनं चतुर्लक्षमुपगच्छति। 

   नवदिल्ली> गतदिने भारते कोविड्बाधितानां संख्या ३,८६,४५२ जाता। इतःपर्यन्तम् अत्युन्नता गणना। अनेन राष्ट्रे आहत्य १,८७,६२,९७६ जनाः कोविड्बाधिताः अभवन्। 

    विविधराज्येषु ३१,७०,२२८ रोगिणः परिचर्यायां वर्तन्ते। केन्द्रस्वास्थ्यमन्त्रालयस्य गणनामनुसृत्य गत२४होरासु ३,४९८ जनाः कोविड्बाधया मृत्युमुपगताः। आहत्य मृत्युसंख्या २,०८,३३० अभवत्। इतःपर्यन्तं १,५३,८४,४१८ जनाः स्वस्थीभूताः जाताः।