OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 23, 2021

 मल्लयुद्धकः सुशील्कुमारः निगृहीतः।

नवदिल्ली> प्रशस्तः मल्लयुद्धक्रीडकः ओलिम्पिक्स् पुरस्कारजेता सुशीलकुमारः अपरस्य मल्लयुद्धक्रीडकस्य हत्याप्रकरणे पञ्चबारक्षकैः निगृहीतः। राष्ट्रिय जूनियर् मल्लयुद्धवीरस्य सागरकूमारस्य हत्याप्रकरणे एव सुशीलकुमारस्य निग्रहणम्। प्रकरणे एतस्य प्रथमदृष्ट्या सम्बन्धः अस्तीति नीतिपीठेन निरीक्षितमासीत्।

  मेय्मासस्य चतुर्थदिनाङ्के आसीत् दिल्लीस्थे छत्रसाल क्रीडाङकणे ताडनेन सागरकुमारस्य अपमृत्युः। दुर्घटनायां अपरौ द्वौ तीव्रेण आहतौ च। एतदनन्तरं सुशीलकुमारः निलीनः आसीत्।