OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 14, 2021

 धार्मिक-राजनैतिक-कार्यक्रमाः भारते कोविड् अतिव्यापनस्य हेतवःअभवन् - विश्वस्वास्थ्यसंस्था।

- रमा टी. के 

  धार्मिक-राजनैतिक-कार्यक्रमाः भारते कोविड् अतिव्यापनस्य हेतुरभवत् इति विश्वस्वास्थ्यसंस्थया उच्यते।  Weekly epidemiological update इति सप्ताहिकपत्रिकायाः अन्तिमसम्पुटे एव एतत् कार्यं स्पष्टीकृतम्। विगते बुधवासरे आसीत् पत्रिकायाः प्रकाशनम्। 

रोगाणुव्यापनवर्धनाय बहूनि कारणानि सन्ति। धार्मिक-राजनैतिक-मेलनानि एव तेषु प्राधान्यत्वेन प्रतिपादितानि। सामूहिकदूरपालनं विना जनानां परस्परसम्पर्कः तथा स्वास्थ्य सुविधायाः उचितोपयोगाभावः च कारणानि  इति update मध्ये सूचितमस्ति।

कोविडस्य भारतीयविभेदः 'विश्वस्य उत्कण्ठा'  इति विश्वस्वास्थ्यसंस्थया प्रख्यापितम्। प्रथमतया     प्रत्यभिज्ञातः      बि.१.१६७ विभेदः एव 'varient of concern ' इति विभागे आयोजितम्। भारतीयविभेदस्य अतिव्यापनक्षमता अस्ति इत्यतः एव संक्रमः।

किन्तु विश्वस्वास्थ्यसंस्थायाः प्रमाणेषु  Indian varient   इति विभेदः नास्ति इति केन्द्रसर्वकारविभागेन  उक्तम्।  बि.१.१६७ इति प्रथमतया प्रत्यभिज्ञातस्य अणुविभेदस्य 'भारतीयविभेदः' इति केचन वार्तामाध्यमैः आवेदितम्। किन्तु एतत् सत्यविरुद्धम् एव। विश्वस्वास्थ्य संस्थया' अयं  भारतीयविभेदः' इति कुत्रापि न सूचितः इति औद्योगिकवृन्दैः ज्ञापितम्। भारतस्य कोविड् प्रतिरोधप्रवर्तनानां यशसि कलङ्कं प्रसारयितुम् एव 'भारतीयविभेदः'  प्रयोगः क्रियते इत्येवं केन्द्रसर्वकारविभागेन  उक्तम्। ।