OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 15, 2021

 केरले सम्पूर्णपिधानं २३तमं यावद्दीर्घितम्। 

   अनन्तपुरी> कोविड्व्यापने अतितीव्रे अनुवर्तिते केरले पिधानं मेय्मासस्य २३ तमदिनाङ्कं यावत् दीर्घितमिति मूख्यमन्त्री पिणरायि विजयः न्यगादीत्। तत्र तिरुवनन्तपुरं, तृश्शूर्, एरनाकुलं, मलप्पुरं जनपदेषु त्रिस्तरीयं पिधानं विहितम्। 

  केरले रोगस्थिरीकरणमानम् अधुनापि उपत्रिंशत्प्रतिशतमिति अनुवर्तमाने पिधानं साप्ताहिकत्रयं यावत् दीर्घीकरणीयमिति स्वास्थ्यविभागेन तथा आरक्षकविभागेन च निर्दिष्टमासीत्। किन्तु साप्ताहिकस्य दीर्घीकरणमेव सर्वकारेण निश्चितम्। 

  ह्यः केरले ३४,६९४ जनाः कोविड्बाधिताः जाताः। ९३ मरणान्यपि आवेदितानि। रोगस्थिरीकरणमानं २६.४१ आसीत्।