OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 18, 2021

 गासा - मरणानि २०० अतीतानि। 

  गासानगरं> इस्रयेल-पालस्तीनसंघर्षः आरभ्य सप्तदिनेषु अतीतेषु गासानगरे हतानां संख्या २०० अतीता। हतेषु ५९ बालकाः ३५ महिलाश्च अन्तर्भवन्ति। १०३५ जनाः आहताः जाता इति हमास् शासनस्य स्वास्थ्यमन्त्रालयेन निगदितम्। १३० हमास् निहता इति इस्रायलेन उच्यते। 

  गतदिने गासाप्रदेशस्य उदग्रभूमौ वर्तमानानि १५ कि मी परिमितानि भूगर्भगह्वराणि तथा नवानां हमास्  अधिकारिणां भवनानि च इस्रयेलः बोम्बस्फोटकेन विनाशमकरोत्। इस्रयेलं विरुध्य प्रयोज्यमानानि अायुधानि नेतुं निर्मितानि गह्वराण्येव विनाशितानि इति इस्रयलेन उक्तम्।