OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 13, 2021

 आरबसमुद्रे चक्रवातः; केरले अतिजाग्रता आवश्यकी। 

   अनन्तपुरी> आरबसमुद्रे लक्षद्वीपसमीपं शुक्रवासरे  न्यूनमर्दः रूपीक्रियमाणः अस्तीति पर्यावरणविभागेन निगदितम्। शनिवासरे अयं अतितीव्रः भविष्यति। रविवासरे अयं  चक्रवातरूपेण रूपान्तरं प्राप्य उत्तर-उत्तरपश्चिमदिशं प्रति गमिष्यति। 

  टौट्टे इति कृतनामधेयस्य अस्य चक्रवातस्य प्रभावेण केरलतीरे ८० कि मी परिमितशीघ्रेण झंझावातः अतिवृष्टिश्च भविष्यति। टौट्टेप्रभावं प्रतिरोद्धुं जाग्रतानिर्देशाः कृताः इति केरलस्य मुख्यमन्त्रिणा पिणरायिविजयेन प्रोक्तम्। मेय्मासस्य १४,१५, १६ दिनाङ्केषु विविधजनपदेभ्यः तीव्र - अतितीव्रजाग्रतासूचनाः प्रदत्ताः। केरलतटे अद्य आरभ्य मत्स्यबन्धनं निरुद्धम्।