OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 2, 2021

 संस्कृतपण्डितश्रेष्ठः प्रोफ. आर् वासुदेवन् पोट्टिः दिवंगतः। 


   अनन्तपुरी> भारतस्य संस्कृतपण्डितेषु अग्रगण्यः राष्ट्रपतिपुरस्कारजेता महामहोपाध्यायः आर्. वासुदेवन् पोट्टिवर्यः [९२] अद्य अनन्तपुर्यां दिवं प्राप्तः। 

  संस्कृतव्याकरण-वेदान्त-साहित्यादिविषयेषु लब्धावगाहः 'पोट्टिवर्यः' हिन्दीमलयालभाषयोरपि पण्डित आसीत्। कर्णाटकराज्यस्य दक्षिणकन्नडजनपदे लब्धजन्मनः तस्य विद्याभ्यासादिकं केरले एव सम्पन्नम्। अनन्तपुर्यामुषित्वा शिक्षामण्डले उन्नतबिरुदान् सम्पादितवान्। संस्कृतव्याकरणे महोपाध्याया इति बिरुदं, न केवलं तत्, ततःपरं वेदन्ते साहित्ये च आचार्यः इति बिरुदे, ततः मलयालभाषायां साहित्यविशारदं हिन्दीभाषायामाचार्यपदं च सः सम्पादितवान्। 

  केरलस्य विविधकलालयेषु वेदान्तविभागे प्राचार्यः, श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये वेदान्तविभागस्य 'डीन्', 'केरल भाषा इन्स्टिट्यूट्' मध्ये मलयालशब्दकोशस्य सहसम्पादकः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठं नामकमानितविश्वविद्यालये प्रयुक्तिपुरुषमुख्यः इत्यादिरूपेण सः स्वस्य कर्ममण्डले व्यराजत। सेवानिवृत्यनन्तरं दीर्घकालं सः केरलसर्वकारस्य संस्कृतपाठपुस्तकसमित्याः अध्यक्षो भूत्वा संस्कृतशैक्षिकक्षेत्रं सम्पन्नं कारितवान्। तथाच केन्द्रसाहित्य-अक्कादम्यां संस्कृतोपदेशसमित्यङ्गः , एन् सि ई आर् टि संस्थायाः पाठपुस्तकसमित्यङ्गः , केरलस्य विभिन्नकलाशालासु परीक्षा-प्रश्नपत्रसमित्यङ्गः, सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् मध्ये 'ओणररि प्रोफसर्' इत्यादिरूपेण स्वस्य वैज्ञानिकधिषणां बहुधा प्रकाशितवान्। 

 वरदराजाचार्यस्य लघुसिद्धान्तकौमुदी, केरलवर्मणः गुरुपुरेशस्तवं, बल्लालसेनस्य भोजप्रबन्धः, शङ्कराचार्यस्य आत्मानात्मविवेकः इत्यादीनां शास्त्रग्रन्थानां कैरल्यां संस्कृते च अनुवादव्याख्यानानि तस्य मुख्यकृतिषु अन्यतमाः विराजन्ते। 

   बहुविधैः पुरस्कारैः वासुदेवन् पोट्टिमहोदयः बहुवारं पुरस्कृतः आसीत्। तृप्पूणित्तुरा विद्वत्सभातः वेदान्तसुवर्णमुद्रा, पट्टाम्पी श्रीनीलकण्ठविद्वत्सभायाः शास्त्ररत्नसुवर्णमुद्रा, विश्वसंस्कृतप्रतिष्ठानस्य पण्डितरत्न-एम् एछ् शास्रीपुरस्कारौ, उडुप्पी तुलु ब्राह्मणसमाजात् श्रीराघवेन्द्रसाहित्यपुरस्कारः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठात् महामहोपाध्यायपदं, राष्ट्रपतेः बहुमतिपत्रं च तेन लब्धेषु पुरस्कारेषु कतिपयाः भवन्ति। 

  संस्कृतमातुः प्रियपुत्रस्य देहवियोगः संस्कृतवाङ्मये महतीं शून्यतां जनयति इति तदीयाः सहस्रशः शिष्याः गणयन्ति। पोट्टिमहोदयस्य अन्त्येष्टिः पुत्तन्कोट्टा रुद्रभूमौ सम्पन्ना।