OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 24, 2021

सि बि एस् ई, +२ परीक्षा- अन्तिमनिर्णयाय  प्रधानमन्त्रिणे समर्पितम्।

 नवदिल्ली> सि बि एस् ई, +२ परीक्षायाः प्रचालनम् अधिकृत्य अन्तिमनिर्णयाय उन्नतस्तरसमितियोगेन प्रधानमन्त्रिणे समर्पितम्। छात्राणां भविष्यं गणयित्वा सेप्तम्बर् मासे परीक्षा प्रचालनीया इति उन्नतस्तरयोगेषु विविधराज्यैः अभिप्रैतम्। प्रतिरोध मन्त्रिणः राजनाथसिंहस्य आध्यक्षे एव योगः प्राचलत्।

 परीक्षाप्रचालनाय दिनाङ्कः आगामिवासरे प्रख्यापयिष्यति इति सूचना अस्ति। केवलं प्रधानविषयेषु परीक्षा प्रचालनीया इति निर्देशः अपि योगे अभवत्। छात्राणां वाक्सिनीकरणात् पूर्वं परीक्षा न प्रचालयितव्या इति नवदिल्याः उपमुख्यमन्त्रिणा मनीष् सिसोदिना उक्तम्।