OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 19, 2021

 वाक्सिनवितरणं वर्धयितुं परिश्रमः - प्रधानमन्त्री। 

   नवदिल्ली> भारते कोविड्वाक्सिनस्य वितरणं इतोऽपि दृढीकर्तुं संवर्धयितुं च परिश्रमः आरब्धः इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। विविधजनपदेषु जनपदाधिकारिणः अभिव्याप्य उन्नताधिकारिभिः सह भाषमाणः आसीत्सः। 

  कोविड्महामारीं प्रतिरोद्धुं अतिशक्तमायुधं भवति वाक्सिनीकरणम्। अतः सामान्यजनेषु एतदधिकृत्य बोधवत्करणमावश्यकम्। एतदर्थं पदक्षेपाः स्वास्थ्यमन्त्रालयेन आरब्धाः। द्विसाप्ताहिकं  वाक्सिनीकरणसमयक्रमं राज्यानि   प्रागेव सूचयितुं पदक्षेपः कृतः इति प्रधानमन्त्रिणा निगदितम्।