OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 11, 2021

 चीनस्य अग्निबाणावशिष्टः भारतीयमहासमुद्रे पतितः। 

   बेय्जिङ्> दिनानि यावत् अनुवर्तितं भीतिं  समाप्य चीनेन विक्षिप्तस्य 'लोङ् मार्च् बी' नामकस्य अग्निबाणस्य अवशिष्टः भारतीयमहासमुद्रे गतदिने न्यपतत्। १८ टण् परिमितभारयुक्तः इत्यूह्यमानः अग्निबाणावशिष्टः भूमौ कुत्र पतित्वा नाशनष्टकारणं भवेदिति आशङ्कायामासीत् लोकः। 

  एप्रिल् २९ दिनाङ्के आसीत् चीनस्य टियाङोङ् निलयात् पूर्वोक्ताग्निबाणः भ्रमणपथं प्राप्तः। तस्य प्रत्यागमनवेलायां अग्निबाणस्य नियन्त्रणं विनष्टमिति मेय्मासस्य चतुर्थदिनाङ्के दृढीकरणमलभत। विनष्टनियन्त्रणः क्षेपणी प्रतिहोरं  २५,४९० कि मी शीघ्रतया क्ष्मां प्रति समागत्य समुद्रे अपतत्। भूरिशः अंशः भस्मीकृतः इति चीनस्य ज्ञापनम्। अन्ते, गते रविवासरे मालिद्वीपसमीपे समुद्रे विनष्टनियन्त्रणः क्षिप्तांशः पतितः।