OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 13, 2021

 राष्टस्य भूरिजनपदेभ्यः षट् तः अष्टसप्ताहपर्यन्तं पिधानम् आवश्यकम्।

यदि नवदिल्ली उद्घाट्यते चेत् दुरन्तस्य आघातः द्विगुणीभविष्यति। 

कोविड् तीव्रव्यापनं - कर्णाटकेषु आगामिनि चतुर्दशदिनानि यावत् सम्पूर्णं पिधानं     प्रख्यापितम्।

लेखिका- रमा टि. के.

  नवदिल्ली> राष्ट्रे यत्र यत्र  जनपदेषु कोविड्  अतिव्यापनम् अभवत् तत्र तत्र षष्ठ सप्ताहात् आरभ्य अष्टसप्ताहपर्यन्तं  सम्पूर्णपिधानम् आवश्यकम् इति Indian council of medical research इत्यस्य अधिपेन डो. बलरामभार्गवेण उक्तम्। अनया रीत्या एव रोगव्यापनं प्रतिरोद्धुं शक्यते इति तेन उक्तम्। रोगव्यापन क्रमः प्रतिशतं दश  (१०% ) इत्यतः अधिकं चेत् नियन्त्रणानि अनुवर्तनीयानि। व्यापनं ५ -१० % इति न्यूनं भविष्यति चेत् उद्घाटनं करणीयम् इति तेन अभिप्रेतम्। इदानीं राष्ट्रस्य ७१८ जनपदेषु ७५ % जनपदेषु  रोगपरीक्षामानः १०% तः अधिकं वर्तते।