OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 19, 2021

 केरले नूतनमन्त्रिमण्डलस्य स्थानारोहणं श्वः। 

पिणरायिविजयस्य नेतृत्वे नूतनसंघः। 

अनन्तपुरी> सि पि एम् नेतुः पिणरायि विजयस्य नेतृत्वे केरलस्य नूतनं मन्त्रिमण्डलं श्वः सायं सार्धत्रिवादने शपथवाचनं करिष्यति। २१ अङ्गयुक्ते मन्त्रिमण्डले पिणरायि विजयः , ए के शशीन्द्रः, के . कृष्णन् कुट्टिः इत्येतेभ्यः ऋते अन्ये सर्वे नूतनाः भवन्ति। 

  अनन्तपुर्यां विधानसभासमीपस्थे सेन्ट्रल् स्टेडियम् क्रीडाङ्कणे सज्जीकृतायां वेदिकायां नियुक्तमन्त्रिणः सर्वे राज्यपालस्य आरिफ्मुहम्मद खानस्य समक्षे शपथवाचनं करिष्यन्ति। कोविड्मार्गनिदेशमनुसृत्य कार्यक्रमेSस्मिन् भागं ग्राह्यमाणानां विशिष्टातिथीनां संख्या ५०० इति नियन्त्रिता। सामान्यजनानां प्रवेशः निषिद्धः। शपथवाचनकार्यक्रमस्य निर्वहणाय त्रिस्तरपिधानेन वर्तमाने अनन्तपुरीनगरे नियन्त्रणलघुत्वमालक्ष्य राज्यस्य कार्यदर्शिमुख्येन आदेशः कृतः।