OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 18, 2021

 भारते ब्रिट्टण् राष्ट्रे च प्रत्यभिज्ञातस्य कोविड्वैराणुविभेदानां प्रतिरोधाय कोवाक्सिन् फलप्रदम् इति कृतानुसन्धानानि सूचयन्ति।  

  नवदिल्ली> भारतेन सम्पुष्टीकृतं स्वदेशीयं कोवाक्सिन् नाम सूच्यौषधं प्रत्याशादायकं भवति। भारते ब्रिट्टण् राष्ट्रे च प्रथमतया प्रत्यभिज्ञातस्य बि १.१६७,बि१.१.७ इत्यादि वैराणुभेदान् अपरान्  भेदान् च प्रतिरोद्घुं  कोवाक्सिन् फलप्रदम् इति तस्य उद्पादकाः अभिप्रयन्ति।

  परीक्षितान् सर्वान् वैराणुभेदान् कोवाक्सिन् निर्वीर्यं करोति इति तस्य उत्पादिकया भारत बयोडेक्  नामिकया औषधनिर्माणशालया  निगदितम्।  इदानीं भारते लभ्ययमानेषु कोविड् सूच्यौषधत्रयेषु अन्यतमं भवति कोवाक्सिन्।

केन्द्रस्वास्थ्यमन्त्रालयस्य  गणनामनुसृत्य राष्ट्रे सर्वत्र  इतःपर्यन्तं १८,२२,२०,१५४ मात्रामितं कोविड्सूच्यौषधम्  वितीर्णम् अस्ति।