OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 17, 2021

 श्री शङ्कराचार्य विश्वविद्यालये श्रीशङ्करमहोत्सवस्य शुभारम्भः। 

  कालटी> श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य नेतृत्वे श्रीशङ्करजन्मदिनमहोत्सवः मेय्मासस्य १७, १८, २५ दिनाङ्केषु 'गूगिल् मीट्' द्वारा आयोज्यते। १७ तमदिनाङ्के अपराह्ने त्रिवादने यूट्यूब् श्रेणी द्वारा शङ्करकृतीनां सङ्गीतालपनेन समारम्भः भविष्यति। ( https://youtube.com/c/SreeSankaracharyaUniversityofSanskritKalady/ ) अष्टादशदिनाङ्के प्रातः दशवादने अन्तर्जालसङ्गोष्ठी। 'तत्र को मोहः कः शोकः एकत्वमनुपश्यतः' इति विषये महाराष्ट्स्थस्य कविकुलगुरु कालिदास संस्कृतविश्वविद्यालयस्य कुलपतिः डा. श्रीनिवास वर्खेटिवर्यः भाषणं करिष्यति। 

  २५तमे दिनाङ्के 10 वादने आयोक्ष्यमाणे अनुस्मरणसम्मेलने विश्वविद्यालयस्य 'डीन्' पदमलङ्कृतवतोः दिवंगतयोः महाचार्यस्य प्रो. आर् वासुदेवन् पोट्टी वर्यस्य तथा डो. टि आर्यादेव्याः च योगदानमधिकृत्य प्रभाषणद्वयं भविष्यति। 

कोविड्कालीन सुरक्षापालनाय एव शङ्करजन्मदिनमहोत्सवः ईदृशरीत्या अन्तर्जालसुविधाम् उपयुज्य क्रियते इति विश्वविद्यालयस्य कुलपतिना डा. धर्मराज् अटाट् वर्येण सम्प्रतिवार्तां प्रति उक्तम्।