OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 16, 2021

 'सैकोव् डि'- स्वदेशीयं नूतनं कोविङ्सूच्यौषधम् आयाति।


  नवदिल्ली>  राष्ट्रे कोविङ्प्रतिरोधाय  स्वदेशीयं नूतनं   सूच्यौषधम् आयाति।  ' सैकोव् डि ' इत्येव तस्य नाम। अहम्मदाबाद् केन्द्रीकृत्य  प्रवर्तमाना ' सैडस् काडिला ' नाम औषधनिर्माणशालीयाः एव अस्य नूतनसूच्यौषधस्य निर्मातारः। मेय् मासस्य अन्तिमे चरणे  एतस्य सूच्यौषधस्य आपत्कालीनोपयोगाय अनुमत्यै  प्रार्थयिष्यते ।  भारत बयोटेक् नाम औषधनिर्माणशालया कोवाक्सिन् इति कोविड् सूच्यौषधस्य निर्माणानन्तरं  स्वदेशे निर्मितं द्वितीयं सूच्यौषधं भवति इदम्। जून् मासस्य आरम्भे सूच्यौषधस्य उपयोगाय अनुमतिः लप्स्यते इति सैडस् काडिलया प्रतीक्ष्यते। अङ्गीकारं लप्स्यते चेत् भारतस्य अनुमतिं लभ्यमानं चतुर्थं कोविड्सूच्यौषधं भविष्यति सैकोव्।