OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 3, 2021

 केरले 'विजयतरङ्गः'।


    कोच्ची> केरले विधानसभानिर्वाचने मुख्यमन्त्रिणः पिणरायि विजयस्य व्यक्तिप्रभावेण सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यः तस्य शासनस्यानुवर्तनं दृढीचकार। १४० स्थानेषु ९९ स्थानानि वामसख्येन प्राप्तानि। मुख्यविपक्षदलं कोण्ग्रस् नेतृत्वे विद्यमानः ऐक्यजनाधिपत्यसख्यः अवशिष्टानि ४१ स्थानानि प्राप। स्वप्रभावं प्रकाशयितुम् भाजपानेतृत्वे विद्यमानेन एन् डि ए सख्येन अत्युत्साहेन कृतः भगीरथप्रयत्नः विफलः जातः। किञ्च हस्तागतं स्थानमेकं विनष्टं जातं च।