OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 28, 2021

 नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये वाट्स् आप् माध्यमाय भारतसर्वकारेण प्रतिवचनं दत्तम्। 

   नवदिल्ली> नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये जातस्य नियमस्पर्धायां वाट्स् आप् माध्यमाय प्रतिवचनं दत्वा केन्द्रसर्वकारः। पौराणां गोप्यतासंरक्षणाय सर्वकारः शपथबद्धः भवति। अपि च राष्ट्रे नियमव्यवस्थां पालयित्वा देशसुरक्षापालनमपि सर्वकारस्य उत्तरदायित्वमेव इति केन्द्रसूचनाप्रौद्योगिकविद्यायाः मन्त्रिणा रविशङ्करप्रसादेन उक्तम्। राष्ट्रस्य नियमव्यवस्थानुसारं गोप्यतासंरक्षणा धिकारः केवलं कोऽपि मौलिकावकाशः न। तत् न्यायानुसारं नियन्त्रणविधेयः भवति इति सः न्यवेदयत्। राष्ट्रसुरक्षा, सामान्यनियमाः, तथा विदेशराष्ट्रयोः मिथः सौहृदं इत्यादिषु बाधायुक्तान् विषयान् प्रतिरोद्धुं, बहिरानेतुं कृतापराधीन् दण्डयितुं च सन्देशस्य उद्भवस्थानं प्रकाशयितव्यमस्ति। स्त्रीणां बालकानां च सुरक्षा अस्मिन् अन्तर्भवति। तत् गोप्यतायाः उल्लङ्घनं न भवति इति भारतसर्वकारः स्वाभिमतं प्राकाशयत्।

   भारतसर्वकारस्य मार्गनिर्देशः शासननियमविरुद्धम् तथा उपभोक्तृणां गोपनीयताधिकारशलङ्घनं च भवति इति 'वाट्स् आप् ' सूचयति।