OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 20, 2021

 केरल संस्कृताध्यापक फेडरेषनस्य नेतृत्वे सम्भाषणवर्गाय शुभारम्भः। 

   कोच्ची> केरल संस्कृताध्यापक फेडरेषन् [KSTF] इति केरलस्य संस्कृताध्यापकानां संघटनेन आकेरलं संस्कृताध्यापकानां कृते आयोज्यमानस्य दशदिनसम्भाषणवर्गस्य समुद्घाटनं सम्पन्नम्। कक्ष्याप्रकोष्ठेषु संस्कृताध्यापनं देववाण्या एव सुकरं ललितं च कर्तुं तथा भाषाप्रयोगे शिक्षकाणां लज्जां सङ्कोचं च अपाकर्तुमेवायं सम्भाषणवर्गः आयोजितः। संघटनेन 'ओण् लैन्' द्वारा आयोजिते सम्मेलने कैरल्याः प्रियकविः प्रोफ. वि मधुसूदनन् नायर् वर्यः वर्गस्य औपचारिकमुद्घाटनमकरोत्। 

    संस्कृतभाषायाः अध्ययनेन स्वांशीकरणेन च छात्राः धीराः मनीषिणः च भविष्यन्तीति मधुसूदनन् नायर् वर्येण उद्घाटनभाषणे उक्तम्। संस्कृतभाषाप्रयोगे अध्यापकेषु तत्र तत्र विद्यमानाः विद्यमानाः अधमर्णीकृतचित्तगतयः निवारणीयाः इत्यपि तेन उद्बोधितम्। 

  अनन्तपुरं संस्कृतमहाविद्यालयस्य प्राचार्यः डो. के उण्णिक्कृण्णः मुख्यभाषणमकरोत्। संस्कृताध्यापकाः राष्ट्रनिर्मातारः इति तेन प्रस्तुतम्। के. एस्. टि. एफ् संघटनस्य राज्याध्यक्षः टि के सन्तोष्कुमारः अध्यक्षः आसीत्। संघटनस्य सचिवमुख्यः सि पि सनल् चन्द्रः, पि पद्मनाभः, के. राजेषः, नीलमन शङ्करः इत्येते भाषणमकुर्वन्। 

   विश्वसंस्कृतप्रतिष्ठानस्य सहयोगे आयोज्यमाने अस्मिन् कार्यक्रमे को. रणजितस्य नेतृत्वे १५ शिक्षकाः शुक्रवासरादारभ्य दशदिनानि यावत् ओण् लैन् द्वारा एव संस्कृतसम्भाषणवर्गं चालयन्ति।