OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 25, 2021

 श्वेतविड्जस्य पश्चात् पीतविड्जम्। प्रथमप्रकरणम् आवेदितम्। तीव्रतरम् इति भिषग्वराः। 


लक्नौ> श्यामविड्जस्य (black fungus) श्वेतविड्जस्य च पश्चात् पीतविड्जम् अपि आवेदितम्। उत्तरप्रदेशे गासियाबादे पञ्चचत्वारिंशत् वयस्कस्य एव प्रथमतया पीतविड्जम् आवेदितम्। सः इदानीं गासियाबादे निजीये आतुरालये परिचर्यायां वर्तते। अपरापेक्षया अतितीव्रतरं भवति पीतविड्जम् इति भिषग्वराः अभिप्रयन्ति। पीतविड्जम् साधारणतया उरगवर्गेषु एव दृश्यते । प्रथमतया एव मनुष्येषु पीतविड्जम् आवेदितम् इति चिकित्सकः ब्रिजिपाल् त्यागी अवदत्। अमितक्लमः,बुभुक्षाराहित्यं,शरीरशोषणम् इत्यादीनि एव रोगलक्षणानि। रोगे मूर्च्छिते आन्तरिकरक्तस्रावःभविष्यति। तदनन्तरफलत्वेन अवयवानि प्रवर्तनरहितानि च भविष्यन्ति।