OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 21, 2021

 केरले नूतनसर्वकारः शासनपदे - अतिदुर्भिक्षताम् अपाकरिष्यति। 

  अनन्तपुरी> केरलराज्ये पिणरायिविजयस्य नेतृत्वे द्वितीयं मन्त्रिमण्डलं शासनपदं प्राप्तम्। सेन्ट्रल् स्टेडियं क्रीडाङ्कणे कोविड्मार्गनिर्देशान् अनुसृत्य आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः मुख्यमन्त्रिणे पिणरायि विजयाय अन्येभ्यः २० मन्त्रिभ्यश्च शपथवाचनम् अकारयत्। 

    सायं सार्धत्रिवादनतः पञ्चवादनपर्यन्तं दीर्घितस्य शपथकार्यक्रमानन्तरं विधानसभायां प्रथमं मन्त्रिमण्डलोपवेशनं सम्पन्नम्। तदनन्तरं कृते वार्ताहरसम्मेलने मुख्यमन्त्रिणा पिणरायिविजयेन सर्वकारस्य राज्यशासननीतिमार्गः विशदीकृतः। तस्य प्रख्यापनेषु कानिचन-

* पञ्चवर्षाभ्यन्तरे अतिदौर्भिक्षम् उन्मूलयिष्यति।

* कार्षिकमण्डले उत्पादनक्षमता, लाभसाध्यता, सुस्थितिः इत्येतेभ्यः प्राधान्यं दास्यति। 

* सामाजिकमण्डलेषु शिक्षा - भवन - स्वास्थ्य मण्डलेषु जातान् अभिवृद्धीन् शक्तीकरिष्यति। 

जनैः सह जनेभ्य एव अयं सर्वकार इति तेन स्पष्टीकृतम्।