OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 12, 2021

 इस्रयेल-पलस्तीनयोः सङ्घर्षे यू एस् राष्ट्रेण आशङ्का प्रकाशिता।

 गासा आक्रमणस्य पश्चात् इस्रयेलेन व्योमाक्रमणम् अनुवर्तते। पलस्तीनं प्रति इस्रयेलस्य आक्रमणे यू एस् राष्ट्रेण आशङ्का प्रकाशिता। सङ्घर्षे अनुवर्तिते सति द्वयोः राष्ट्रयोः मध्ये समस्यापरिहाराय साहाय्यं दास्यते इति वैट् हऊस् पत्रकार्यसचिवेन (press secretary) जेन् साकिमहाभागया वार्तामेलने उक्तम्। इस्रयेल-पलस्तीनाः स्वतन्त्रतायै अर्हाः भवन्ति इत्यपि तया उक्तम्। अन्यराष्ट्राणां नेतारः आक्रमणे अनिष्टं प्रकाशितवन्तः। आक्रमणे मृतानां संख्या वर्धते। इतः पर्यन्तं सप्तशताधिकाः ( ७०० ) जनाः व्रणिताश्च।