OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 8, 2021

 तमिलनाडे एम् के स्टालिनः शपथं कृतवान्। पुतुश्शेर्यां रङ्गस्वामी च। 


 चेन्नै>तमिलनाट् राज्ये डि एम् के दलस्याध्यक्षः एम् के स्टालिनः मुख्यमन्त्रिरूपेण शपथारोहणं कृतवान्। १५ नूतनमुखाः अभिव्याप्य ३३ मन्त्रिणश्च स्टालिनेन सह शपथवाचनमकुर्वन्। राजभवने सम्पन्ने कार्यक्रमे राज्यपालः बन्वारिलाल् पुरोहितः शपथवाक्यं कारितवान्। 

  पुतुश्शेरी केन्द्रशासनप्रदेशे मुख्यमन्त्रिरूपेण एन् अर् कोण्ग्रस् नेता एन् रङ्गस्वामी शपथारोहणमकरोत्। राजनिवासे सम्पन्ने ललितकार्यक्रमे लफ्. राज्यपालः तमिष़िसै सौन्दर्यराजः शपथवाक्यं कारितवान्। मन्त्रिणः विषये निर्णयः नाभवत्।