OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 24, 2021

 केरलविधानसभा अद्य आरभते। 

   अनन्तपुरी> केरलविधानसभायाः १५ तमं सम्मेलनम् सोमवासरे आरभते। ५३ सामाजिकाः नूतनाः सन्ति। 

  अद्य सामाजिकानां शपथवाचनं सम्पत्स्यते। कतिपयसदस्याः एकान्तवासं भजन्ति इत्यतः तेषां शपथग्रहणं पश्चात् भविष्यति। परस्परदूरं परिपाल्य परिपाल्य आसनानि सज्जीकृतानि सन्ति। 

  कुजवासरे सभानाथस्य चयनं सम्पत्स्यते। २८ तमे दिनाङ्के राज्यपालः आरिफ् मुहम्मदखानः सर्वकाराय शासननीतिं प्रख्यापयिष्यति। सर्वकारस्य नूतनम् आयव्ययपत्रकं वित्तमन्त्री के एन् बालगोपालः जूण् चतुर्थदिनाङ्के अवतारयिष्यति। जूण् १४ दिनाङ्कपर्यन्तं सभासम्मेलनं निश्चितं तथापि कोविडवस्थां परिचिन्त्य अन्तिमकार्यक्रमेषु निर्णयः भविष्यति।