OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 28, 2021

 लडाक् मध्ये इस्रयेलीय- उदग्रछायाग्राही-विन्यासाय भारतम् सज्जम् अभवत्।  चीनायाः सरणं निरीक्ष्यते।

   नवदिल्ली> लडाक् मध्ये यथार्थनियन्त्रणरेखायां इस्रयेलीय हेरोन् उदग्रछायाग्राहीविन्यासाय

 भारतं सज्जमभवत्।  भारतीयसेनायाः निरीक्षणक्षमतायाःशक्तीकरणाय एव उदग्रछायाग्राहिणः सेनायै प्रदास्यन्ते। इत्थं लडाक् मध्ये तथा चीनेन सह येषु प्रदेशेषु सीमां सीमां विभजते तेषु मण्डलेषु अपि चीनस्य प्रवर्तनानि कार्यक्षमतया निरीक्षितुम् भारतस्य अवसरोऽपि लभ्यते। कोविड्१९ महामार्याः कारणेन कालविलम्बो जातः तथापि भारतीयतीरसेनायै विलम्बं विना उदग्रछायाग्राह्यः लप्स्यन्ते इति सर्वकारवृन्दैः निगदितम्। नूतनस्य उदग्रछायाग्राहिणः   प्रतिलोमसम्मर्दक्षमता पुरातनापेक्षया अधिकतया अस्ति।