OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 31, 2021

 वियन्नाराष्ट्रे अतिविनाशकारी नूतनकोविड्विभेदः आवेदितः।

 एषः वायुद्वारा शीघ्रं प्रसरिष्यति।

 हनोय्> वियन्नाराष्ट्रे अतिविनाशकारी शीघ्रव्यापनकोविड्विभेदः आवेदितः। प्रथमदृष्ट्या द्वयोः विभेदयोः सङ्करविभागः एव आवेदितः। वियन्ना राष्ट्रे अधुना रोगबाधितानां संख्या प्रतिक्षणं वर्धमाना दृश्यते। कोविड्वैराणोः भारतस्य तथा यू .के भेदस्य सङ्करविभागः एव नूतनतया प्रसरति इति वियन्नस्य स्वास्थ्यमन्त्रिणा गुयन् तङ् लोङेन निगदितम्। अतिशीघ्रव्यापनशाली नूतनविभेदः वायुद्वारा शीघ्रं प्रसरिष्यति इति तेन पूर्वसूचना दत्ता।

इतः पर्यन्तं वियन्नाराष्ट्रे केवलं ६८५६ जनाः एव रोगबाधिताः। ४७ जनाः हताः च। गतवर्षापेक्षया नूतनरोगबाधितानां संख्या अनुक्षणं वर्धते।