OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 16, 2026

 पाकिस्थाने विद्यालयछदिः प्रभञ्ज्य ३५ मरणानि। 

३४ छात्राः, एका अध्यापिका। 

दुर्घटनाधीनः विद्यालयः।

पेषवारं> पाकिस्थानस्य प्रान्ते खैबर् पख्तूण् ख्व इत्यत्र कस्यचन निजीयविद्यालयस्य छदिः  निपत्य ३४ छात्राः एका शिक्षिका च मृत्युमुपगताः। ४० जनाः  क्षताः। ऊनत्रयोदशवयस्काः छात्रा एव मृताः। 

  ११० छात्राः विद्यालये पठन्तः सन्ति। त्रितयस्तरोपेतस्य विद्यालयस्य छदिः एव भग्नः।  भवननिर्माणस्य अपाक एव दुर्घटनाहेतुरिति सूच्यते। विद्यालयभवनस्वामी निगृहीतः। पाकिस्थाने ईदश्यः विद्यालयदुर्घटनाः अनुस्यूततया जायन्ते। जूलाय् मासे विभिन्नदिनेषु एतादृशरीत्या छदिभञ्जनेन भित्तिकानाशेन च बहवः छात्राः मृताः आसन्।