इरानयुद्धे यू एसस्य ८१ विमानानि विनष्टानि।
वाषिङ्टणः> सप्त मासान् यावत् इरानं विरुध्य युद्धे अमेरिकायाः ८१ युद्धविमानानि ड्रोणयन्त्राणि च विनष्टानि वा दुष्टानि जातानीति 'कोण्ग्रस् रिसर्च् सर्वीस्' इत्यस्य नूतनप्रवादः। ३१९२४ कोटि रूप्यकाणां नष्टं गण्यते।
अमेरिकायाः आधुनिकयुद्धविमानानि नाम्ना एफ्-३५, एफ्-१५, एम् क्यू -९ इति ड्रोणयन्त्राणि च विशीर्णेषु अन्तर्भवन्ति।