OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 11, 2026

 ग्यानेष् कुमारस्य स्थानत्यागाय सि जे पी प्रक्षोभः।

 राष्ट्रराजधानी संघर्षभरिता। नगरम् आरक्षकाधीनम्। 

राजनैतिकदलनेतारः गृहात्, विमानात्, यानात्, मार्गात् च निगृहीताः। 


नवदिल्ली> शनिवासरः दिल्लीवासिनां नगरस्थानां च दुर्दशा आसीत्। मुख्यनिर्वाचनायुक्तस्य ग्यानेष् कुमारस्य पदवीत्यागाय सि जे पी [क्रोकोच् जनता पार्टी] इति युवजनसंघस्य नेतृत्वे आयोजितः युवजनप्रक्षोभं दमयितुं केन्द्रसर्वकारेण नियुक्तः आरक्षक-केन्द्रसेनादलः पूर्वेद्युः रात्रावेव नगरनियन्त्रणं स्वाधीने कारितम्। आन्दोलनकेन्द्रमिति निश्चितं जन्तर मन्दरस्थानं तटस्थानि विन्यस्य सम्पूर्णतया अगम्यमानं कृतम्। 

  सि जे पी नेतारः अभिजित् दीप् के, सौरव दासः, अशुतोष राङ्क इत्येते दिल्लीम् अवतरणात् पूर्वं विमानादेव आरक्षकैः निगृहीताः। आन्दोलनाय सहयोगमुद्घोष्य पथसञ्चलनाय प्रस्थितवन्तः ऐसा, एस् एफ् ऐ, ए ऐ एस् एफ् इत्यादीनां छात्रसंघटनानां नेतारः, युवजनसंघटनानां नेतारश्च मार्गमध्ये निगृहीताः। जन्तर मन्दरं प्रति पथसञ्चलनाय उद्युक्तवन्तः विविधराज्यानां भूतपूर्वमुख्यमन्त्रिणः विभिन्नस्थानेभ्यः आरक्षकाधीनाः जाताः। 

  त्रिपुरस्य भूतपूर्वमुख्यमन्त्री मणिक् सर्कारः, पश्चिमवंगस्य पूर्वीयमुख्यमन्त्रिणी ममता बैनर्जी, दिल्ल्याः भूतपूर्वमुख्यमन्त्री अरविन्द केज्रिवालः, केरलस्य भूतपूर्वमुख्यमन्त्री पिणरायि विजयः च निगृहीताः। महिला  अभिव्याप्य सप्तसहस्रं प्रतिषेधकाः आरक्षकैः निगृहीताः। प्रतिषेधदमनस्य अंशतया मेट्रोनिस्थानानि रेल् याननिस्थानानि च पूर्वेद्युः आरभ्य पिहितानि आसन्। शनिवासरे रात्रौ दशवादनात्परमेव पुनरुद्घाटितानि।