तमिलनाटे १३,००० कोटि रूप्यकाणां परियोजनाः प्रधानमन्त्रिणा उद्घाटिताः। 
अभियोजनानाम् उद्घाटनं विजयेन सह नरेन्द्रमोदी करोति।
चेन्नई> रविवासरे प्रधानमन्त्री नरेन्द्र मोदी तमिलनाटाय १३,००० कोटि रूप्यकाणां विकसनाभियोजनाः शिलान्यासानि च उद्घाटनं कृतवान्। चेन्नै मेट्रो अभियोजनायाः द्वितीयचरणे ४९०० कोटि रूप्यकाणां व्यये निर्मितस्य मार्गस्य उद्घाटनं मुख्यमन्त्रिणा विजयेन सह प्रधानमन्त्री निरवहत्। तदतिरिच्य विविधानां राष्ट्रियमार्गाणां, रेल् यानमार्गाणां, पञ्च अमृतभारत निस्थानानां चोद्घाटनं प्रधानमन्त्रिणा कृतम्।
तथा च चेन्नई नौकाश्रयस्य विकासपरियोजना, मणली तैलशुद्धीकरणशालायाः नूतनाभियोजना इत्येतयोः शिलान्यासः मोदिवर्येण कृतः। मद्रास् ऐ ऐ टि मध्यस्था 'सुधा गोपालकृष्णन् ब्रयिन् सेन्टर' नामिका संस्थामपि सः राष्ट्राय समर्पितवान्।