OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 10, 2026

 भारत-विन्डीस टि २०। 

द्वितीयस्पर्धायां विन्डीसस्य विजयः। 

विन्डीसाय शतकं प्राप्तवान् गणनायकः षाय् होपः। 

राञ्ची> भारतस्य कन्दुकताडकैः आरचितं धावनाङ्कपर्वतम् अनुगम्य प्रभञ्ज्य वेस्ट् इन्डीसस्य ताडकाः। भारतं विरुध्य वेस्ट् इन्डीसस्य द्वितीया टि २० क्रिकेट स्पर्धा ४ ताडकानां विनष्टे विन्डीसेन विजिता। प्रथमं कन्दुकताडनं कृतवत् भारतं २० क्षेपणचक्रेषु ५ ताडकानां विनष्टे २४९ धावनाङ्कान् सम्पादयामास। विन्डीसस्तु १८.३ क्षेपणचक्रेषु ४ ताडकानां विनष्टे २५२ धावनाङ्कान् सम्पाद्य विजयलक्ष्यं प्राप। विन्डीसस्य बृहत्तमं धावनाङ्कानुगमनं [run chase] भवत्येतत्। 

  विन्डीसस्य नायकः षाय् होपः ४५ कन्दुकैः १०२ धावनाङ्कान् सम्पाद्य अबाह्यः अभवत्। ३७ कन्दुकैः ८४ धावनाङ्कान् सम्पादितवान् रूथर् फोडः च विन्डीसस्य विजये मुख्यांशम् अवहत्। 

  पुर्वं भारतस्य ताडनक्रीडायां केरलीयः सञ्जु सांसणः ४१ कन्दुकैः ८१ धावनाङ्कान् सम्पाद्य भारताय दृढमाधारशिलाम् अदात्। स एव भारतस्य अङ्कप्रापकाग्रिमः [top scorer]। सञ्जोः नवमम् अर्धशतकं भवत्येतत्। तिलक वर्मा (४४), ईशान कृष्णः (४३), श्रेयस् अय्यरः (४०) च भारताय अशोभन्त।