भारतवंशजायाः नवनीतम् नवी पिल्लै महोदयायाः कृते शान्तिनोबेल् पुरस्कारः।
स्टोक्होम्> द्विसहस्राधिकषड्विंशतितमे (२०२६) वर्षे शान्त्यै नोबेलपुरस्कारः भारतवंशजायाः नवनीतं नवी पिल्लै महोदयायाः कृते प्राप्तः। दक्षिणाफ्रिकादेशजाता नवनीतं नवी पिल्लै महोदया मानवाधिकारकार्यकर्त्री न्यायाग्रणी च अस्ति। सा पूर्वम् संयुक्तराष्ट्राणाम् (UN) मानवाधिकारायोगस्य उच्चायुक्ता आसीत्। सम्प्रति सा पलस्तीनदेशस्य कृते संयुक्तराष्ट्राणाम् स्वतन्त्रायोगस्य अध्यक्षा अस्ति।
मानवाधिकारसंरक्षणाय अन्तरराट्रियन्यायव्यवस्थायै च तस्याः समग्रयोगदानार्थम् अयम् पुरस्कारः प्रदत्तः। अन्ताराष्ट्रिय अपराधन्यायालये, रुवाण्डादेशस्य कृते संयुक्तराष्ट्राणाम् अन्तरराट्रिय-अपराधन्यायाधिकरणे च कृताभिः सेवाभिः नवनीतं पिल्लै महोदया प्रसिद्धा अस्ति। सा अन्ताराट्रियमानवाधिकारसंरक्षणे च अमूल्यपरिवर्तनानाम् नेतृत्वमकरोत्।
