OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 14, 2026

 परम्परागतव्रीहीबीजानां संरक्षकः  

चेरुवयल् रामः दिवंगतः।

चेरुवयल् रामः स्वगृहे।

वयनाट्> जैवकृषिरीतिमवलम्ब्य अपूर्वाणां व्रीहीबीजानां संरक्षणं कृतवान्  चेरुवयल् रामः [७४] दिवंगतः। २०२३ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण समादृत आसीत्। 

 वयनाट् जनपदे मानन्तवाटी प्रदेशे 'कम्मना' इत्यत्रस्थः गोत्रवर्गीयः कृषकः आसीत्  चेरुवयल् रामः। वंशनाशं प्राप्नुवन्ति अपूर्णाणि ४५ अधिकरणानि व्रीहीबीजानि स्वकीये केदारे परम्परागतरीत्या कृषिं कृत्वा संरक्षितवान्। न केवलं व्रीहीबीजानि, बहूनि शाकानि औषधसस्यानि च एवं रीत्या संरक्षितवान्। 

  २०११ तमे वर्षे हैदराबादे आयोजिते १२ राष्ट्राणां भागधेयत्वेन विशिष्टे जैववैविध्यसम्मेलने केरलस्य प्रतिनिधिः चेरुवयल् रामः आसीत्।