OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 9, 2026

 श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतदिनोत्सवः समाप्तः।

डो जि गंगाधरन् नायर्,  डो के  मुरलिः, उषा नङ्ङ्यर् इत्येते  समादृताः। 


कालटी> केरले श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य  संस्कृतदिनोत्सवः समाप्तः। समाप्तिसम्मेलनं कुलपतिः सिसा तोमसः उद्घाटनमकरोत्। उज्जैनीस्थस्य महर्षि पाणिनि संस्कृत एवं वेदविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डो सि जी विजयकुमारः मुख्यभाषणं कृतवान्। 

  संस्कृतक्षेत्राय कृतं समग्रयोगदानं पुरस्कृत्य विख्यातः संस्कृतपण्डितः महामहोपाध्यायः डो जि गंगाधरन् नायर्, आयुर्वेदस्य अनुशीलनानुसन्धानमण्डले कृतं योगदानं पुरस्कृत्य प्रमुखः आयुर्वेदभिषग्वरः डो के मुरलिः, कूटियाट्टकलायां योगदानमालक्ष्य उषा नङ्ङ्यार् इत्येते विश्वविद्यालयेन समादृताः। 

  संस्कृतोत्सवस्य अंशतया वाक्यार्थविचारः, छात्राणां कृते विविधाः स्पर्धाः च आयोज्य सम्मानानि वितरीतानि।