OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 15, 2026

 टि-२० - चतुर्थस्पर्धायां विन्डीसस्य विजयः।

षाय् होपाय शतकम्।

शतकं प्राप्तवतः षाय्होपस्य आह्लादः। 

हैदराबादः> भारत-विन्डीसयोः टि-२०  क्रिकेट स्पर्धापरम्परायां चतुर्धस्पर्धा वेस्ट् इन्डीसेन विजिता। विन्डीसनायकस्य षाय् होप् इत्यस्य निर्दयं कन्दुकताडनं तेषां विजये निर्णायकमभवत्। सः ५० कन्दुकेषु १०२ धावनाङ्कान् सम्प्राप।

   २४ धावनाङ्कैः आसीत् भारतस्य पराजयः। प्राप्ताङ्कसूचिका - विन्डीसः २० क्षेपणचक्रेषु  २४७/३। अर्षदीपसिंहः व्रणितः सन् निवृत्तः इत्यतः भारतं १९.३ क्षेपणचक्रेषु २२३/९। अनेन विजयेन विन्डीसः भारतेन सह समस्थितं जग्राह [२ -२]।