जम्मु काश्मीरे द्वौ भीकरौ मारितौ।
श्रीनगरं> जम्मु काश्मीरस्थे कुलगामे सुरक्षासेनया द्वौ भीकरौ मारितौ। शुक्रवासरे विधत्तायां प्रतियोगितायामासीदियं घटना।
भीकरसान्निध्यमस्तीति गुप्तसूचनामनुसृत्य अखल् वनमण्डले कृते मार्गणे सेनया भुषुण्डिप्रयोगः कृतः।
श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये
श्रीशङ्करजन्मदिनोत्सवः।
कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये श्रीशङ्करजन्मदिनोत्सवकार्यक्रमाणां द्वितीयसोपानम् आगस्ट् ५, ६ दिनाङ्कयोः विश्वविद्यालयपरिसरे सम्पत्स्यते। पञ्चमदिनाङ्के श्रीशङ्कररचनाः अधिकृत्य सङ्गीतसपर्यां प्रस्तौष्यति।
तदनन्तरम् आयोक्ष्यमाणे उद्घाटनसमारोहे कुलपतिः प्रोफ के के गीताकुमारी आध्यक्षं वक्ष्यति। बङ्गलुरु विश्वविद्यालयस्य संस्कृतविभागाध्यक्षः एस् रङ्गनाथः मुख्यभाषणं करिष्यति। मध्याह्नानन्तरं सम्पत्स्यमाने सङ्गोष्ठीकार्यक्रमे वंगविश्वविद्यालयस्य तत्त्वदर्शनविभागे प्राचार्यः लक्ष्मीकान्तपतिः अध्यक्षपदमलङ्करिष्यति।
षष्ठे दिने चित्रप्रदर्शनं, नृत्ताविष्कारः,वाक्यार्थसदः, समाप्तिसम्मेलनम् इत्यादीनि भविष्यन्ति।
१६ संख्याकेषु सि - २९५ विमानेषु
अन्तिममपि भारतेन स्वीकृतम्।
लण्टनं> स्पेयिनराष्ट्रात् भारतसेनायै क्रीणातुं निर्णीतानि सर्वाण्यपि सि २९५ नामकानि सेनासामग्रीवाहकानि विमानानि भारतेन स्वूकृतानि। गतदिने स्पेयिनस्थः भारतस्थानपतिः दिनेश् के पट्नायिकः वायुसेनायाः उन्नताधिकारिणश्च मिलित्वा अन्तिमं विमानं स्वीकृतवन्तः।
२०२१ तमे वर्षे आसीत् ५६संख्याकानि सि - २९५ इति विमानानि क्रीणातुं भारतेन स्पेयिनस्य Airbus Defense and Space इत्याख्यया संस्थया सह सन्धिः कृता। १६ संख्याकानि स्पेयिनात् क्रीतानि। अवशिष्टानि ४० संख्याकानां निर्माणं भारते एव करिष्यति।
साहित्यनिरूपकः प्रोफ. एम् के सानुः दिवंगतः।
२०२३ राष्ट्रिय चलच्चित्रपुरस्काराः घोषिताः।
नवदिल्ली> २०२३ तमवर्षस्य राष्ट्रिय चलच्चित्रपुरस्काराः उद्घोषिताः। श्रेष्ठाभिनेतृरूपेण द्वौ चितौ। 'जवान्' नामके चलच्चित्रे अभिनये षारुख् खानः, Twelfth Fail नामके चलच्चित्रे विक्रान्त मासी च श्रेष्ठाभिनेतृ पुरस्काराय अर्हतां प्राप्तवन्तौ। Mrs Chaterji v/s Norvey इत्यस्मिन् चलच्चित्रे अभिनयेन राणी मुखर्जी श्रेष्ठनायिकारूपेण चिता। श्रेष्ठं चलच्चित्रं Twelfth Fail भवति।
दि केरला स्टोरी ' इति चलच्चित्रस्य निदेशकः सुदीप्तो सेन् इत्येषः श्रेष्ठनिदेशकपुरस्कारं प्राप्तवान्।
उपराष्ट्रपतिनिर्वाचनं सेप्टम्बर् नवमदिनाङ्के।
नवदिल्ली> भारतस्य १७ तमम् उपराष्ट्रपतिं विचेतुं मतदानं मतगणना च सेप्तम्बररमासे नवमदिनाङ्के विधास्येते।
प्रातः ११ वादनतः सायं पञ्चवादनपर्यन्तं मतदानस्य अवकाशः अस्ति। आगस्त् सप्तमदिनाङ्के निर्वाचनस्य विज्ञप्तिः भविष्यति। तद्दिनादारभ्य २१ दिनाङ्कपर्यन्तं पत्रिकासमर्पणस्य कालः।
उपराष्ट्रपतेः जगदीप धन्करस्य स्थानत्यागकारणादेव नूतनोपराष्ट्रपतये निर्वाचनम् आवश्यकमभवत्।
ट्रम्पस्य शुल्कघोषणम्।
प्रत्याघाताः अवलोक्यमानाः सन्तीति प्रशासनम्।
नवदिल्ली> भारतीयानां निर्यातोत्पन्नानां २५% शुल्कं द्रव्यदण्डं च विहितस्य अमेरिकाराष्ट्रस्य निर्णये प्रत्याघाताः केन्द्रप्रशासनेन अवलोक्यन्ते इति वाणिज्यमन्त्री पीयूष गोयलः निगदितवान्। संसदः सभाद्वये अपि प्रस्तुतविषये आत्मना कृते प्रस्तावे मन्त्रिणा एतदपि निगगितं यत् राष्ट्रहितं संरक्षितुं सर्वकारः यावच्छक्यं प्रयतिष्यति।
'एन् ऐसार्' भौमनिरीक्षणोपग्रहः विक्षिप्तः।
चेन्नै> बहिराकाशगवेषणमण्डले भारत-अमेरिकयोः विशिष्टसहयोगः। उभयोरपि राष्ट्रयोः बहिराकाशगवेषणसंस्थाभ्यां संयुक्ततया विकसितः 'एन् ऐसार्' नामकः भौमनिरीक्षणोपग्रहः श्रीहरिक्कोट्टायां स्थापितात् सतीष् धवान् बहिराकाशनिलयात् विक्षिप्तः। भारतस्य जि एस् एल् वि - एफ् १६ इति शक्तिमता विक्षेपवाहनेन एव उपग्रहः भ्रमणपथं नीतः। १९ निमेषाभ्यन्तरे उपग्रहं पृथ्वीतः ७४० कि मी मितं दूरस्थं भ्रमणपथमनयत् इति इस्रोसंस्थायाः अध्यक्षः डो वि नारायणः प्रोक्तवान्।
सामाजिक माध्यमेषु कालः न यापनीयः पठन्तु कृत्रिमबुद्धिमत्ता। अरविन्द श्रीनिवासः।
इन्स्टाग्रामादि सामाजिक माध्यमेषु क्रीडनम् इच्छन्तः विद्यार्थिनः उद्दिश्य आसीत् महोदयस्य इदं वाक्यम्। कृत्रिमबुद्धिमत्तां शिक्षन्ताम् – अन्यथा कर्मलाभः सुदुष्करः भवेत् : इति महोदयः यूनं उद्बोधितवान्
भारतीयो अयं अरविन्दः श्रीनिवासः ‘Perplexity AI’ इत्यस्य सहसंस्थापकः भवति । तस्य सन्देशः इदानीं सामाजिक माध्यमेषु प्रचुरप्रसरितः (viral) अभवत्।
तस्य संदेशस्य सारः एवमस्ति–
कृत्रिमबुद्धिः, यन्त्राध्ययनम् (machine learning), दत्त (Data) विज्ञानम्, स्वचालितप्रणालीनिर्माणम् इत्यादीनि अनुस्यूततया प्रचलिष्यन्ति। नूतनं तन्त्रज्ञानं प्रतिदिनं जायमानम् अस्ति। एतेषु कुशलाः एव भविष्ये उत्तमानि कर्मसन्धानानि साधयति।
"Instagram इत्यस्मिन् समयस्य नाशः मास्तु। तस्मिन् काले कृत्रिमबुद्धेः ज्ञानं संग्रहीतव्यम्। नो चेत् वृत्यर्थं धावन्तः क्लेशं अनुभविष्यन्ति।"
Coursera, edX, Udemy इत्यादिषु Online पाठ्यक्रमाः। GitHub, Kaggle इत्यादिषु कृत्रिमबुद्धेः प्रयोगः। YouTube इत्यत्र निःशुल्कशिक्षावीडियोदर्शनम् ChatGPT, Gemini इत्यादीनां साहाय्येन शिक्षणं च करणीयम् इति अरविन्दः युवकान् उद्दिश्य अवदत् ।
तिब्बते ब्रह्मपुत्रस्य उपरि महा-सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य आशङ्का वर्धिता।
कृत्रिमबुद्धिमत्तया निर्मितं चित्रम्
तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रः नाम नद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः आकारे विश्वप्रसिद्धस्य पूर्वाधार-परियोजनायाः त्रैगुण्यम् अतिक्रामति।
एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषतया चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।
भारतदेशेन चीनं प्रति निवेदनं कृतम्— " निम्न-देशस्थितानां राज्यानां हिताय परियोजनायाः निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतां परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।
कृषकेभ्यः पञ्जीकृतसुविधा आयोजिता।
नवदिली> कृषकाणां कल्याणाय केन्द्रसर्वकारः सङ्गणक-कृषक-पञ्चीकरणं समारब्धम्। कृषिक्षेत्रे स्वामित्वं विद्यमानानां - पि एम् किसान् योजनायाम् अन्तर्गतानां कृषकाणां क्षेत्रसंबन्धीनि कृषिसंबन्धीनि विवरणानि अत्र निवेशनीयनि भवन्ति। सर्वेभ्यः कृषक व्यक्तिसूचक-संख्या ( Unique Farmer ID Number) अपि प्रदास्यते। अनेन कृषिवर्धनाय अनुकूला सेवा, विना विलम्बं लभते इत्यस्ति वैशिष्ट्यम्।
भारतस्य ट्रम्पशुल्कः २५%।
अनिष्टे द्रव्यदण्डमपि!
मुम्बई> विविधेषु राष्ट्रेषु उपरि डोनाल्ड ट्रम्पेन विहितेषु आयातशुल्केषु प्राबल्यमानेतुं एकमात्रे दिने अवशिष्टे भारतस्य उपर्यपि आयातशुल्कः विहितः। भारतात् निर्यातानां सामानानां यू एस् राष्ट्रे २५% शुल्कं राष्ट्रपतिना डोनाल्ड ट्रम्पेन विहितम्। ओगस्त् प्रथमदिनाङ्कतः प्रवृत्तिपथमेष्यति।
तथा च रूसराष्ट्रात् तैलेन्धनं क्रीणाति इत्यनिष्टकारणेन द्रव्यदण्डं विधास्यतीति ट्रम्पेण घोषितम्।
युक्रैने रष्यायाः आक्रमणं - २२ मरणानि।
ट्रम्पस्य अन्त्यशासनं निष्फलम्।
कीव्> १० -१२ दिनाभ्यन्तरे युद्धं समापनीयमिति डोनाल्ड ट्रम्पस्य अन्त्यशासनं तृणवद्गणयित्वा रष्यया युक्रैने विधत्ते आक्रमणे २२ जनाः हताः। सोमवासरे रात्रौ आसीदाक्रमणम्। सपोरिसा इत्यत्रस्थं कारागृहं प्रति विधत्ते बोम्बाक्रमणे १७ कारागृहवासिनः मृताः। अशीत्यधिके जनाः व्रणिताः। डिनिप्रोस्थाने वर्तमानम् आतुरालयं प्रति कृते आक्रमणे चत्वारः मृताः। अष्ट जनाः कठिनतया आहताः। ७३ स्थानेषु रष्यया आक्रमणं कृतं, २२ मरणानि अभवन्निति युक्रेनस्य राष्ट्रपतिः व्लोदिमर् सेलन्स्की अवोचत्।
ओपरेषन् सिन्दूरं
संसदि चर्चा सम्पन्ना। .jpeg)
संसदि सम्पन्ना चर्चा
युद्धपरिसमाप्तये स्वस्य व्यवहारः जात इति ट्रम्पस्य वादः प्रधानमन्त्रिणा निरस्तः।
राक्षामन्त्री राजनाथसिंहः स्वाभिमतं प्रकाशयति।
नवदिल्ली> पहल्गामे आतङ्कवाद्याक्रमणानन्तरं भारतेन कृतः सैनिकप्रक्रमं - ओपरेषन् सिन्दूरम् - अधिकृत्य विपक्षदलस्य निरन्तरापेक्षानुसारं लोकसभायां १६ होराः दीर्घिता चर्चा समायोजिता।
शासनपक्षतः राष्ट्ररक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमित शाहः, जे पि नड्डा इत्यादयः प्रमुखाः चर्चायां भागं कृतवन्तः। आतङ्कवादं विरुध्य भारतस्य प्रक्रमाः ओपरेषन् सिन्दूरात् परमपि अनुवर्तन्ते, तत्कारणादेव सोमवासरे अपि पहल्गाम भीकराक्रमणे साक्षात् नेतृत्वमूढवन्तं भीकरमभिव्याप्य त्रीन् भीकरान् मारयितुं सेना अशक्नुवदिति ते सूचितवन्तः।
विपक्षतः विपक्षनेता राहुल गान्धी, प्रियङ्कागान्धी, पि चिदम्बरम् इत्यादयः प्रमुखाः नेतारः भागं गृहीतवन्तः। युद्धपरिसमाप्तये स्वस्य निर्देशः आवश्यक अभवदिति अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य अभिमानवादान् निराकर्तुं प्रधानमन्त्री सज्जः भवेदिति विपक्षभागतः अपेक्षितम्।
चर्चायाः उपसंहाररूपेण प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् युद्धसमाप्तये कस्यापि विदेशराष्ट्रस्य व्यवहारः न जातः। ट्रम्पस्य अभिमानवादः मोदिना निरस्तः। पाकिस्थानस्य सेनााधिकारी भारतस्य आक्रमणं सोढुं परमक्तमित्यतः युद्धं समापयितुं ययाचे इति प्रधानमन्त्रिणा स्पष्टीकृतम्।
दिव्या देशमुखः - विश्वचषकं प्रापयन्ती प्रथमा भारतीयवनिता।
बातुमी> फिडे महिला विश्वचषकचतुरङ्गकिरीटं प्राप्तवती दिव्या देशमुखः एतदुपलब्धिं प्राप्यमाणा प्रथमा भारतीयमहिला भवति। चतुरङ्गक्रीडायां परिणतप्रज्ञां कोनेरु हम्पीमेव १९ वयस्का एषा कुमारी समस्थितिभञ्जकस्य द्वितीयक्रीडायां पराजितवती। प्राप्ताङ्कः २. ५ - १. ५। अनेन विजयेन 'ग्रान्ड् मास्टर्' स्थानमपि एतस्यै लब्धम्।
विश्वस्मिन् प्रमुखाः १०७ क्रीडिकाः वीरतास्पर्धायां निकषायन्ते स्म। विश्वश्रेणीगणे १५ तमं 'सीड्' पदे उपस्थितायै दिव्यायै प्रारम्भे सम्भावना न कल्पिता। किन्तु श्रेणीगणे अग्रेसर्यः एकैकां पराजित्य आसीत् दिव्यायाः अश्वमेधः।
महाराष्ट्रे नागपुरं प्रान्तीया दिव्या वैद्यदम्पत्योः जितेन्द्र देशमुख-नम्रता देशमुखयोः पुत्री अस्ति।
'ओपरेषन् महादेवः'
काश्मीरे त्रयः भीकराः व्यापादिताः।
पहल्गामसुत्रधारः तेष्वेकः।
श्रीनगरं> 'ओपरेषन् महादेवः' इत्यभिधेयेन सेनाप्रक्रमेण पहल्गाम आक्रमणस्य मुख्यसूत्रधारमभिव्याप्य त्रयः भीकरनिष्ठुराः व्यापादिताः।
लष्कर ई तोय्बा इति भीकरसंघटनस्य मुख्यः कमान्डर् पदीयः हाषिम मूसा इत्याख्यः यः पहल्गाम आक्रमणे साक्षात् भागं कृतवान् अपि हत इति सेनाधिकारिणा निगदितम्।
चतुरङ्गे दिव्यात्भुतम्।
दिव्या देशमुखाय विश्वमहिलाचतुरङ्गकिरीटम्।
बातुमी> जोर्जिया राष्ट्रे बातुमीनगरे सम्पन्ने विश्वमहिलाचतुरङ्गक्रीडायाः अन्तिमे प्रतिद्वन्द्वे भारतस्य दिव्या देशमुखः नामिका १९ वयस्का किरीटं धृतवती। भारतस्यैव कोनेरुहम्पी नामिकां वरिष्ठां क्रीडिकां पराजित्य भवति दिव्यायाः विजयः। समस्थितिभञ्जकक्रीडायां [Tie Breaker] द्वितीयक्रीडायाः ७५ तमं शारचालनं दिव्यायाः विजयकारणमभवत्।