राजस्थाने वाहनदुर्घटना - १५ मरणानि।
जोधपुरं> राजस्थाने फलोडि इत्यत्र तीर्थाटकानां यात्रायानं स्थगितं ट्रक् यानम् प्रति संघट्य १५ जनाः मृताः। त्रयः आहताः। रविवासरे सायं भारत माला एक्स्प्रेस मार्गे आसीत् दुर्घटना।
तृतीये टि - २० प्रतिद्वंद्वे भारतस्य विजयः।
होबर्ट्> आस्ट्रेलियां विरुध्य तृतीये विंशति - विंशति क्रिकट् प्रतिद्वन्द्वे भारतस्य पञ्च द्वारकाणां विजयः। प्राप्ताङ्कसूचिका - आस्ट्रेलिया - २० क्षेपणचक्रेषु १८६/६ ; भारतं - १८. ५ क्षेपणचक्रेषु १८८/५। अनेन विजयेन पञ्चकोपेतायां परम्परायां उभे राष्ट्रे १ - १ इति समस्थितौ वर्तेते। आगामिक्रीडा गुरुवासरे सम्पत्स्यते।
बिहारविधानसभानिर्वाचनं
प्रचारः अत्युच्चस्तरे। प्रथमसोपानस्य घोषप्रचारः श्वः समाप्यते।
पट्ना> बिहारराज्ये विधानसभानिर्वाचनस्य प्रचरणम् अत्युच्चस्तरे प्रचाल्यते। एन् डि ए सख्यस्य महासख्यपक्षस्य राष्ट्रियनेतारः वरिष्ठनेतारश्च ऊर्जस्वलेन प्रचारस्य नेतृत्वमावहन्ति।
प्रधानमन्त्री नरेन्द्रमोदी गतदिने भोजपुरजनपदे बहुषु प्रदेशेषु पथसञ्चलनम् अभिसम्बुध्य भाषितवान्। पट्नानगरे वीथीप्रदर्शनकार्यक्रमे अपि मोदिवर्यः भागं गृहीतवान्।
कोण्ग्रस् नेता राहुलगान्धिः बगुसाराय्,खगारिया जनपदस्थयोः विविधेषु प्रदेशेषु आयोजितेषु सम्मेलनेषु जनान् अभिमुखीकृत्य महासख्यस्थानाशिनां कृते प्रचरणं कृतवान्। निर्वाचनस्य प्रथमचरणं षष्ठे दिनाङ्के सम्पत्स्यते। सघोषप्रचारणं श्वः समाप्स्यति।
महिला क्रिकट् विश्वचषकं भारतं सम्प्राप।
प्रथमा किरीटसम्प्राप्तिः।
दीप्ती शर्मा विजयशिल्पी।अर्धशतकं,५ द्वारकाणि च।
प्राप्तकिरीटस्य भारतगणस्य विजयाह्लादः।
मुम्बई> महिलानाम् एकदिनक्रिकट् विश्वचषकस्य अन्तिमप्रतिद्वन्दः भारताय चरित्रमुहूर्तं सम्मानितवान्। इदंप्रथमतया महिलानाम् एकदिनक्रिकट् विश्वचषकः भारतगणेन सम्प्राप्तः। दक्षिणाफ्रिका आसीत् अन्तिमेे प्रतिद्वन्द्वे भारतस्य प्रतियोगी। उत्साहोज्वले प्रतिद्वन्द्वे ५२ धावनाङ्कैः आसीत् सुवर्णविजयः।
दीप्ती शर्मा, षेफाली वर्मा इत्येतयोः सर्वमण्डलप्रकटनं [All-round] भारतस्य विजये निर्णायकमभवत्। षेफाली वर्मा ८७ धावनाङ्कान् सम्पादितवती। दीप्ती शर्मणः क्रीडायां ५८ धावनाङ्काः, ५ द्वारकाणि च भारताय उपलब्धानि। प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त ताडकानां विनष्टे २९८। दक्षिणाफ्रिका ४५. ३ क्षेपणचक्रेषु २४६ धावनाङ्कैः सर्वे बहिर्नीताः।
केरलं भारते प्रथमम् अतिदारिद्र्यमुक्तं राज्यम्।
+ २०२१ तमे आरब्धस्य अतिदारिद्र्यमोचनयज्ञस्य गुणभोक्तारः ५९,२८३ परिवाराः।
+ केरलप्रसूतिदिने मुख्यमन्त्रिणा उद्घोषणं कृतम्।
![]() |
| अतिदारिद्र्यमुक्तराज्योद्घोषणकार्यक्रमे मुख्यमन्त्रिणा सह मम्मूट्टिवर्यः इतरे मन्त्रिणश्च। |
अनन्तपुरी> केरलराज्यस्य ६९ तमे जन्मदिने [नवम्बर् १] राज्यम् अतिश्रेष्ठां कामपि उपलब्धिं सम्प्राप। ५९,२८३ परिवारीयाः उपद्विलक्षं जनाः अतिदारिद्र्यात् मुक्ताः जाताः।
सर्वकारस्य निर्णयमनुसृत्य २०२१ तमे वर्षे केरले विविधमण्डलेषु अतिदारिद्र्यम् अनुभूयमानान् जनानधिगन्तुं विविध प्रशासनविभागान् क्रोडीकृत्य समग्रेक्षणमारब्धम्। भोजन--वास-स्वास्थ्य-प्रत्यभिज्ञानपत्र-वृत्ति-औषधचिकित्सादिषु विषयेषु अतिनिस्वताम् अनुभूयमानाः ६४,००६ परिवाराः सन्तीति अधिगतम्। नियतलक्ष्यं विना अटनं कुर्वतः २३१ परिवारान्, नैकेषु प्रादेशिकप्रशासनेषु अन्तर्भूतान् परिवारान् च अभिव्याप्य ४७२३ परिवाराः अल्पकालिकेन आवलीतः निष्कास्य अवशिष्टानां ५९,२८३ कुटुम्बानां निस्वतामपाकर्तुं विविधायोजनाः सर्वकारेण कृताः। अनेन संयुक्तराष्ट्रसभायाः प्रथमं द्वितीयं च सुस्थिरविकासलक्षद्वयं [दारिद्र्यनिर्माजनं बुभुक्षामोचनं च] पूर्णतया उपलभ्यमानं भारतस्य प्रथमं राज्यमिति स्थानं केरलाय अर्हते इति सर्वकारेण अभिमानीक्रियते।
गतदिने - शनिवासरे - आकारिते सविशेषे विधानसभासम्मेलने अनुशासनं ३०० अनुसृत्य मुख्यमन्त्री पिणरायि विजयः अतिनिस्वतानिर्मार्जितराज्यमधिकृत्य उद्घोषणं कृतवान्। ततः सायं राजधानीनगरे सम्पन्ने वर्णाभे प्रौढे च उत्सवोपेते कार्यक्रमे जनकीयमुद्घोषणं मुख्यमन्त्रिणा कृतम्। कैरल्याः श्रेष्ठाभिनेता मम्मूट्टिः विशिष्टातिथिः आसीत्।
चतुरङ्ग विश्वचषकः
नारायणस्य समस्थितिः, दिव्यायाः पराजयः।
पनजी [गोवा]> फिडे चतुरङ्ग विश्वचषकस्य प्रथमदिने भारतस्य क्रीडकौ समस्थितिं प्राप्तवन्तौ। महिलाविभागे वीरा दिव्या देशमुखस्य प्रथमक्रीडायां पराजयः।
प्रथमचक्रस्य प्रथमक्रीडायां दक्षिणाफ्रिकायाः डानियल् बारिषः भारतस्य रोणक् सद्वाणिं समस्थितिं बबन्ध। केरलीयः ग्रान्ड् मास्टर् पदीयः एस् एल् नारायणः पेरु राष्ट्रस्य सलस् रोजासु इत्येनं प्रति समस्थितिमभजत।
महिलाविभागे महिलाविश्वचषकविजेत्री दिव्या देशमुखः ग्रीक् तारं स्टामिटास् कोर् कौलोस् नामिकां प्रति पराजयं स्वीकृतवती।
महिलाक्रिकट् विश्वचषके अन्तिमप्रतिद्वन्द्वः अद्य।
चषकसमीपं भारतस्य नायिका हर्मन् प्रीत कौर् दक्षिणाफ्रिनायिका लोरा वोल्वर्त् च।
मुम्बई> क्रिकट् विश्वचषकम् अभिलषन्त्यः भारतीयमहिलाः अद्य दक्षिणाफ्रिकां प्रति स्पर्धते। मुम्बय्याम् अपराह्ने त्रिवादने स्पर्धा आरप्स्यते। पूर्वं द्विवारं भारते अन्तिमप्रतिद्वन्द्वे क्रीडितवत्यपि विजयप्राप्तिः नालभत। २००५ तमे वर्षे आस्ट्रेलियां, २०१७ तमे वर्षे इङ्गलण्टं प्रति च पराजयमन्वभूत्। दक्षिणाफ्रकायाः प्रथमः अन्तिमप्रतिद्वन्द्वः भवत्येषः।
केरलपुरस्काराः
पञ्चानां केरलश्रीः।
अनन्तपुरी> केरलप्रसूतिदिनम् आलक्ष्य उद्घोषितेषु केरलपुरस्कारेषु भिन्नभिन्नमण्डलेषु स्वप्रतिभां प्रकाशितवन्तः पञ्च कुशलाः केरलश्रीपुरस्कारेण समाद्रियन्ते। 'Asian School of Journalism' इत्यस्यस्थापकः शशिकुमारः , टि के एम् इति शैक्षिकस्थापनस्य अध्यक्षः षहाल् हसन् मुसलियार्, Manhole Robot इति यन्त्रमनुष्यं साक्षात्कृतवान् एम् के विमल गोविन्दः, कटवातनौकया भूप्रदक्षिणं कृतवान् नौसेनायाः निवृत्तः लफ्टनन्ट् कमान्डर् अभिलाष् टोमी, हस्तद्वयरहिता अपि वाहनं चालयित्वा चालनप्रमाणपत्रं [Driving License] सम्पादितवती तोटुपुष़ा निवासिनी जिलुमोल् मारियट् इत्येते केरलश्रीपुरस्कारान् लब्धवन्तः।
केरलपुरस्काराः प्रख्यापिताः।
डो एम् आर् राघववार्यरस्य केरलज्योतिः। 
अम् आर् राघववार्यरि।
द्वयोः केरलप्रभा।
अनन्तपुरी> प्रमुखः चरित्रपण्डितः अध्यापकश्च डो एम् आर् राघववार्यर् महोदयः केरलसर्वकारस्य 'केरलज्योति'पुरस्कारेण समाद्रियते। शैक्षिकमण्डलाय दत्तं समग्रयोगदानमधिकृत्य अस्ति पुरस्कारः। कोष़कोट् प्रदेशीयः राघववार्यरः कोष़क्कोट् विश्वविद्यालये चरित्रविभागे प्रोफेसर पदीयः अध्यापकः अध्यक्षश्चासीत्।
कार्षिकक्षेत्रे कृताय योगदानाय पि बी अनीषः , कलाक्षेत्रे योगदानाय राजश्री वार्यरः च केरलप्रभापुरस्काराय चितौ। कण्णूरजनपदीयः अनीषः राज्यसर्वकारस्य कर्षकोत्तमपुरस्कारलब्धः युवकृषकः अस्ति। शास्त्रीयनृत्तमण्डले विख्याता राजश्री वार्यरः कैरल्याः पूर्वकालीया दूरदर्शनावतारिका च अस्ति।
मुहम्मद असरुदीनः तेलङ्कानस्य मन्त्री।
हैदराबादः> भारतस्य भूतपूर्वः क्रिकट्गणनायकः कोण्ग्रसनेता च मुहम्मद असरुदीनः तेलङ्कानस्य रेवन्त रेड्डी मन्त्रिमण्डले केबिनट् मन्त्रिरूपेण शपथवाचनं कृतवान्। जूमिलि हिल्स् मण्डले नवम्बर् ११ तमे दिनाङ्के उपनिर्वाचने सम्पद्यमाने अयं प्रक्रमः आदर्शव्यवहारनियमस्य विरुद्ध इत्यारोप्य भा ज पा दलेन मुख्यनिर्वाचनाधिकारिणं प्रति निवेदनं समर्पितम्।
राष्ट्रपतिः 'रफाल्' युद्धविमाने डयनमकरोत्।
युद्धविमानद्वये डयनं कुर्वन्ती प्रथमराष्ट्रपतिः।.jpg)
रफाल् युद्धविमानोड्डयनसन्नद्धा राष्ट्रपतिः सैनिकवेषे।
अम्बाला> भारतस्य राष्ट्रपतिः सर्वसैन्याधिपा च द्रौपदी मुर्मू रफाल् नामके राष्ट्रस्य युद्धविमाने अर्धहोराकालं डयनं कृतवती। बुधवासरे प्रभाते हरियानस्थे अम्बालस्थानात् राष्ट्रपतिना सह रफालयुद्धविमानम् उड्डयितम्। २०० कि मी दूरं मुर्मूवर्या डयितवती। १७ स्क्वाड्रण् इत्यस्य कमान्डिग् ओफीसर् ग्रूप् केप्टन् पदीयः अमित् गहानी युद्धविमानस्य चालकः आसीत्। व्योमसेनाधिपः एयर् मार्षल् मुख्यः ए पि सिंह प्रभृतयः राष्ट्रपतिना सह यात्रां कृतवन्तः।
२०२३ तमे वर्षे सुखोय् ३० नामके युद्धविमाने अपि राष्ट्रपतिः डयनं कृतवती आसीत्। अनेन द्वयोरपि युद्धविमानयोः सञ्चारं कृतवती प्रथमराष्ट्रपतिः अस्ति द्रौपदी मुर्मू ।
फिडे चतुरङ्गविश्वचषकाय शुभारम्भः।
पनजी> फिडे संस्थया आयोजिताः चतरङ्गविश्वचषकस्पर्धाः श्वः आरप्स्यन्ते। शुक्रवासरे उद्घाटनकार्यक्रमः सम्पद्यते। शनिवासरतः नवम्बर मासे २७ दिनाङ्कपर्यन्तमस्ति स्पर्धापरम्परा।
२३ संवत्सरेभ्यः परमेव भारतं चतुरङ्गविश्वचषकाय आतिथ्यमावहति। ८० राष्ट्रेभ्यः २०६ चतुरङ्गक्रीडकाः स्पर्धायै भारतं प्राप्स्यन्ति। २४ भारतीयताराणि स्पर्धिष्यन्ते। एषु २० ग्रान्ड् मास्टर् पदीयाः चत्वारः अन्ताराष्ट्रिय मास्टर् पदीयाः सन्ति। डि गुकेशः, आर् प्रग्नानन्दः, दिव्या देशमुखः, निहाल सरिनः, एस् एल् नारायणः च प्रमुखाः भवन्ति।
महिला विश्वचषक क्रिकट्
आस्ट्रेलियां पराजित्य भारतम् अन्त्यस्पर्धायाम्।
जमीमा रोड्रिगस् [१२७*] विजयशिल्पिनी। 
जमीमा रोड्रिगस् अञ्जलीबद्धा सखीभिः साकम् आनन्दाश्रुभिः विजयाह्लादे।
मुम्बई> महिला विश्वचषक क्रिकट् चरिते सप्तवारं वीरतापदं प्राप्तम् आस्ट्रेलियागणं पराजित्य भारतम् अन्त्यस्पर्धां प्राविशत्। गुरुवासरे मुम्बय्यां डि वै पाट्टील् क्रीडाङ्कणे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे वर्तमानीनवीरं पञ्च द्वारकैः पराजयत। जमीमा रोड्रिगस् इत्यस्याः निश्यदार्ढ्योपेता असामान्या क्रीडा एव भारतं विजयपथं प्रापयत। सा तु १३४ कन्दुकेषु १२७ धावनाङ्कान् सम्पाद्य अपराजिता अवर्तत।
प्रतिद्वन्द्वस्य प्रथमपादे ४९. ५ क्षेपणचक्रेषु आस्ट्रेलियागणः ३३८ धावनाङ्कान् समाहृत्य बहिगतः। प्रत्युत्तरक्रीडायां भारतं ४८. ३ क्षेपणचक्रेषु पञ्च क्रीडिकाणां विनष्टे ३४१ धावनाङ्कान् सम्पाद्य सप्तात्रयात् पूर्वं आस्ट्रेलियायाः लब्धापमानस्य परिहारक्रियामकरोत्।
रविवासरे मुम्बय्यां सम्पत्स्यमाने किरीटप्रतिद्वन्द्वे दक्षिणाफ्रिकया सह स्पर्धिष्यते। भारतेन इतःपूर्वं त्रिवारं अन्तिमस्पर्धा क्रीडिता अपि विजयतीरं न प्राप्तम्।
अद्य राष्ट्रिय एकतादिवसः।
आराष्ट्रम् पट्टेल् वर्यस्य स्मरणायाम् एकतादिनकार्यक्रमाः।
प्रधानमन्त्री गुजराते; पटेलप्रतिमायां पुष्पार्चना; अर्धसेनाविभागानां पथसञ्चलनम्।
केवाडिया [गुजरात्] > अद्य सर्दार् वलभायि पटेलवर्यस्य १५० तमं जन्मदिनम्। आराष्ट्रम् एकतादिवसरूपेण आमान्यते। बहुविधकार्यक्रमाः सर्वेषु राज्येषु प्रचलन्ति।
गुजरातराज्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्दार् पटेलवर्यस्य प्रतिमायाः परिसरे एकतादिनम् आमन्यते। अर्धसेनाविभागस्य पथसञ्चलनं सम्पन्नम्। विविधानि कलारूपाणि प्रदर्शितानि। मोदिवर्यः पटेलप्रतिमायां पुष्पहारं समर्पितवान्। तदनन्तरं एकतादिनप्रतिज्ञां कारयित्वा राष्ट्रम् अभिसंबुध्य भाषणमकरोत्। स्वतन्त्रतादिनं, गणतन्त्रदिनमिव श्रेष्ठमस्ति राष्ट्रिय एकतादिनमपि इति प्रधानमन्त्रिणा उद्बोधितम्।
'एक्स् - ५९' शब्दातिवेगजेट् विमानम्
नासायाः प्रथमपरीक्षणं विजयकरम्।
कालिफोर्णिया> शब्दात् शीघ्रं, निश्शब्दं सञ्चार्यमाणस्य 'सूपर्सोणिक् एक्स् - ५९' नामकस्य जेट् विमानस्य नासया कृतं परीक्षणोड्डयनं विजयकरमभवत्। गतदिने दक्षिणकालिफोर्णियायां मरुस्थले आसीत् परीक्षणोड्डयनम्।
लोक् हीड् मार्टिन् इत्यभिधेयया संस्थया नासायै अस्य विमानस्य आकारकल्पनं निर्माणं च विधत्तम्। सामान्येन सूपर्सोणिकविमानानां सञ्चारे उद्भूयमानं हूङ्कारशब्दं विना एवास्य रूपकल्पनम्।
'एक्स्-५९' इत्येतत् एकमात्रयन्त्रोपेतं विमानमस्ति। शब्दात् १. ४ गुणितवेगेन [प्रतिहोरं १४९० कि मी] सञ्चरितुं शक्यते। १०० पादपरिमितदैर्घ्यं २९. ५ पादमितं विस्तारं चास्ति। न्यूनातिन्यूनशब्देन सञ्चरितुं शब्दातिशीघ्रतामवाप्तुं च अनेन शक्यते। वाणिज्याधारे सूपर्सोणिकविमानयात्रां साधयितुमुद्दिश्य प्रवर्तमानायाः Quest (Quiet Supersonic Technology) इति अभियोजनायाः अंशतया अस्ति इदं परीक्षणम्।
'मोन् ता' चक्रवातः - आन्ध्रप्रदेशे त्रयः मृताः।
अमरावती> वंगसमुद्रान्तराले जातस्य 'मोन् ता' चक्रवातस्य दुष्प्रभावेण आन्ध्रप्रदेशे त्रयः जनाः मृताः। कुजवासरे मच्चिलिनगरस्य काक्किग्रामस्य च मध्ये चक्रवातः स्थलमस्पृशत्।
अतिभीषणे वाते वृक्षाः उन्मूलिताः, वीथीगमनागमनं स्थगितं च। १४ सेतवः भग्नाः। ८७,००० हेक्टर् मितेषु केदारेषु विनष्टः जातः। आराज्यं १२०९ समाश्वासशिबिराणि आरब्धानि। सार्धैकलक्षं जनाः शिबिरेषु अभयं प्राप्तवन्तः।
इस्रयेलस्य आक्रमणेन गासायां १०४ मरणानि। 
गासायां गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्।
गासानगरं> हमासेन युद्धविरामसन्धिः उल्लङ्घितः इत्यारोप्य पुनरपि गासायाम् इस्रयेलस्य गणहत्या। प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः आदेशानुसारं कुजवासरनिशायां गासायां सर्वत्र इस्रयेलसैन्येन कृते आक्रमणे ४६ बालकान् अभिव्याप्य १०४ जनाः मृत्युमुपगताः इति गासास्थात् स्वास्थ्यमन्त्रालयात् निगदितम्। २५३ जनाः व्रणिताः। तेषु २० बालसहितानां ४५ जनानामवस्था तीव्रतरा अस्ति।
उत्तरगासायां गासानगरं, मध्यगासायां बुरैज्, नुसैरत्, दक्षिणगासायां खान् यूनिस् इत्येतेषु स्थानेषु इस्रयेलः अतिशक्तं व्योमाक्रमणम् अकरोत्। अत्रत्यानि भवनानि वाससमुच्चयानि विद्यालयाश्च आक्रमणविधेयानि अभवन्।
परन्तु हमासस्य बहूनि सैनिकशिबिराणि विनाशितानि ३० सेनानेतारः हताश्च इति एतदधिकृत्य इस्रयेलस्य भाष्यम्।
एस् एस् एल् सि परीक्षा मार्च् ५ तमतः।
+२ षष्ठदिनाङ्कतः।
अनन्तपुरी> अस्मिन्नध्ययनसंवत्सरे एस् एस् एल् सि परीक्षा [दशमकक्ष्याः सामान्यपरीक्षा] मार्च् पञ्चमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं सम्पत्स्यति इति शिक्षामन्त्री वि शिवन्कुट्टिः वार्ताहरसम्मेलने निगदितवान्। प्रभाते सार्धनववादने परीक्षाः आरप्स्यन्ते। परिणामः मेय् अष्टमे दिनाङ्के उद्घोषयिष्यते।
उच्चतरछात्राणां सामान्य परीक्षा [+२] मार्च् षष्ठदिनाङ्कतः २८ तम दिनाङ्कपर्यन्तं भविष्यति। परिणामोद्घोषणं मेय् २२ तमे दिनाङ्के स्यात्।