OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 31, 2025

 राष्ट्रपतिः 'रफाल्' युद्धविमाने डयनमकरोत्। 

युद्धविमानद्वये डयनं कुर्वन्ती प्रथमराष्ट्रपतिः।

रफाल् युद्धविमानोड्डयनसन्नद्धा राष्ट्रपतिः सैनिकवेषे।

अम्बाला> भारतस्य राष्ट्रपतिः सर्वसैन्याधिपा च द्रौपदी मुर्मू रफाल् नामके राष्ट्रस्य युद्धविमाने अर्धहोराकालं डयनं कृतवती। बुधवासरे प्रभाते हरियानस्थे अम्बालस्थानात् राष्ट्रपतिना सह रफालयुद्धविमानम् उड्डयितम्। २०० कि मी दूरं मुर्मूवर्या डयितवती। १७ स्क्वाड्रण् इत्यस्य कमान्डिग् ओफीसर् ग्रूप् केप्टन् पदीयः अमित् गहानी युद्धविमानस्य  चालकः आसीत्।  व्योमसेनाधिपः एयर् मार्षल् मुख्यः ए पि सिंह प्रभृतयः राष्ट्रपतिना सह यात्रां कृतवन्तः।  

  २०२३ तमे वर्षे सुखोय् ३० नामके युद्धविमाने अपि राष्ट्रपतिः डयनं कृतवती आसीत्। अनेन द्वयोरपि युद्धविमानयोः सञ्चारं कृतवती प्रथमराष्ट्रपतिः अस्ति द्रौपदी मुर्मू ।