'एक्स् - ५९' शब्दातिवेगजेट् विमानम्
नासायाः प्रथमपरीक्षणं विजयकरम्।
कालिफोर्णिया> शब्दात् शीघ्रं, निश्शब्दं सञ्चार्यमाणस्य 'सूपर्सोणिक् एक्स् - ५९' नामकस्य जेट् विमानस्य नासया कृतं परीक्षणोड्डयनं विजयकरमभवत्। गतदिने दक्षिणकालिफोर्णियायां मरुस्थले आसीत् परीक्षणोड्डयनम्।
लोक् हीड् मार्टिन् इत्यभिधेयया संस्थया नासायै अस्य विमानस्य आकारकल्पनं निर्माणं च विधत्तम्। सामान्येन सूपर्सोणिकविमानानां सञ्चारे उद्भूयमानं हूङ्कारशब्दं विना एवास्य रूपकल्पनम्।
'एक्स्-५९' इत्येतत् एकमात्रयन्त्रोपेतं विमानमस्ति। शब्दात् १. ४ गुणितवेगेन [प्रतिहोरं १४९० कि मी] सञ्चरितुं शक्यते। १०० पादपरिमितदैर्घ्यं २९. ५ पादमितं विस्तारं चास्ति। न्यूनातिन्यूनशब्देन सञ्चरितुं शब्दातिशीघ्रतामवाप्तुं च अनेन शक्यते। वाणिज्याधारे सूपर्सोणिकविमानयात्रां साधयितुमुद्दिश्य प्रवर्तमानायाः Quest (Quiet Supersonic Technology) इति अभियोजनायाः अंशतया अस्ति इदं परीक्षणम्।
.webp)