OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 30, 2025

 इस्रयेलस्य आक्रमणेन गासायां १०४ मरणानि। 

गासायां गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्।

गासानगरं> हमासेन युद्धविरामसन्धिः उल्लङ्घितः इत्यारोप्य पुनरपि गासायाम् इस्रयेलस्य गणहत्या। प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः आदेशानुसारं कुजवासरनिशायां गासायां सर्वत्र इस्रयेलसैन्येन कृते आक्रमणे ४६ बालकान् अभिव्याप्य १०४ जनाः मृत्युमुपगताः इति गासास्थात् स्वास्थ्यमन्त्रालयात् निगदितम्। २५३ जनाः व्रणिताः। तेषु २० बालसहितानां ४५ जनानामवस्था तीव्रतरा अस्ति। 

  उत्तरगासायां गासानगरं, मध्यगासायां बुरैज्, नुसैरत्, दक्षिणगासायां खान् यूनिस् इत्येतेषु स्थानेषु इस्रयेलः अतिशक्तं व्योमाक्रमणम् अकरोत्। अत्रत्यानि भवनानि वाससमुच्चयानि विद्यालयाश्च आक्रमणविधेयानि अभवन्। 

  परन्तु हमासस्य बहूनि सैनिकशिबिराणि विनाशितानि ३० सेनानेतारः हताश्च इति एतदधिकृत्य इस्रयेलस्य भाष्यम्।