फिडे चतुरङ्गविश्वचषकाय शुभारम्भः।
पनजी> फिडे संस्थया आयोजिताः चतरङ्गविश्वचषकस्पर्धाः श्वः आरप्स्यन्ते। शुक्रवासरे उद्घाटनकार्यक्रमः सम्पद्यते। शनिवासरतः नवम्बर मासे २७ दिनाङ्कपर्यन्तमस्ति स्पर्धापरम्परा।
२३ संवत्सरेभ्यः परमेव भारतं चतुरङ्गविश्वचषकाय आतिथ्यमावहति। ८० राष्ट्रेभ्यः २०६ चतुरङ्गक्रीडकाः स्पर्धायै भारतं प्राप्स्यन्ति। २४ भारतीयताराणि स्पर्धिष्यन्ते। एषु २० ग्रान्ड् मास्टर् पदीयाः चत्वारः अन्ताराष्ट्रिय मास्टर् पदीयाः सन्ति। डि गुकेशः, आर् प्रग्नानन्दः, दिव्या देशमुखः, निहाल सरिनः, एस् एल् नारायणः च प्रमुखाः भवन्ति।
 



