OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 31, 2025

 महिला विश्वचषक क्रिकट्

आस्ट्रेलियां पराजित्य भारतम् अन्त्यस्पर्धायाम्। 

जमीमा रोड्रिगस् [१२७*] विजयशिल्पिनी। 

जमीमा रोड्रिगस् अञ्जलीबद्धा सखीभिः साकम्  आनन्दाश्रुभिः विजयाह्लादे।
   

मुम्बई> महिला विश्वचषक क्रिकट् चरिते सप्तवारं वीरतापदं प्राप्तम् आस्ट्रेलियागणं पराजित्य भारतम् अन्त्यस्पर्धां प्राविशत्। गुरुवासरे मुम्बय्यां डि वै पाट्टील् क्रीडाङ्कणे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे वर्तमानीनवीरं पञ्च द्वारकैः पराजयत। जमीमा रोड्रिगस् इत्यस्याः निश्यदार्ढ्योपेता असामान्या क्रीडा एव भारतं विजयपथं प्रापयत। सा तु १३४ कन्दुकेषु १२७ धावनाङ्कान्  सम्पाद्य अपराजिता अवर्तत। 

  प्रतिद्वन्द्वस्य प्रथमपादे ४९. ५ क्षेपणचक्रेषु आस्ट्रेलियागणः ३३८ धावनाङ्कान् समाहृत्य बहिगतः। प्रत्युत्तरक्रीडायां भारतं ४८. ३ क्षेपणचक्रेषु पञ्च क्रीडिकाणां विनष्टे ३४१ धावनाङ्कान् सम्पाद्य सप्तात्रयात् पूर्वं आस्ट्रेलियायाः लब्धापमानस्य परिहारक्रियामकरोत्। 

  रविवासरे मुम्बय्यां सम्पत्स्यमाने किरीटप्रतिद्वन्द्वे दक्षिणाफ्रिकया सह स्पर्धिष्यते। भारतेन इतःपूर्वं त्रिवारं अन्तिमस्पर्धा क्रीडिता अपि विजयतीरं न प्राप्तम्।